Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 66
________________ १ प्रव्रज्यावस्तु ०पिलिन्दवत्सः च गङ्गादेव्यै 'वृषली'ति चोदितवान् इत्यादि । अन्यच्च, विनयपरिज्ञानं कथमपि न कृतं भवति, दुष्करत्वात् । स्थूलकुमार्योः सार्धं एकभूमौ अनवस्थानवत् उद्यमेषु च अन्तरायबाहुल्यात् । यतः प्रकरणमिदं विविधं भवति ॥] [Plate II 2b]' (यदुत) चेत् भदन्त त्रैविद्यः त्रिवर्ष-त्रिमलप्रहोणः, स च पञ्चभिर्धर्मैः समन्वागतः [न]27 स्यात्, तेनाऽपि अनिश्रितेन जनपदचारिका चरितव्या ? नोपालिन् इत्युक्तम् ॥ ३॥ रक्ष्यं चानेन विनयगतं, दूरेण दूरं अपसारयतु एनं परिहृततासंपत्त्यर्थम् । यदध्याचारात् परेषां अप्रसादः स्यात् तत्परिहारार्थम् । शिक्षासु कृतार्थोऽपि अत्रादरवान्, गौरवोत्पादनार्थम् । [शास] नस्थित्यर्थं च प्रसिद्धताद्यतिक्रमो गच्छति। केनचिदतिक्रमे सति इति ध्वंसोऽन्यथा शासनस्य संपद्यते । तस्मात्, यथैव अन्यस्य अत्र अननुज्ञानं तथैव त्रैविद्यस्य ॥ निश्रयगतम् ॥ (iv) संग्राह्यगतम् . (१०३) माऽसि 400 तीर्थ्यः इति प्रव्रज्याथं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च ।। पृच्छेत् इत्युपाध्यायः ।। पृच्छेयुः इति परिणतस्य उपसंपादका इ-] ३त्यनेन संबंधः । उपसंपादकैरेव स प्रश्नः यो रहोनुशासकेन, तन्नियुक्तत्वात्तस्य ॥ (१०४) न-अनाराधितचित्तं, उत्सृज्य शाक्यं प्राग्नेयं च जटिलं, तीर्थ्य प्रव्राजयेयुः उपसंपादयेयुर्वा । शाक्याग्नेयजात्योः नूनं किञ्चिदाशयसभाग्यं लक्षितम्-'नियतं अनयोः प्रतिपत्तौ सत्यां भा[वतः प्रति-]पत्तिः, न कृतकेन' इति ॥ यतः एतदनुज्ञातमिति प्रतिपत्तव्यम्-यच्च उक्तं-'ददाम्यहं ज्ञातीनां ज्ञातिपरिहारमि'ति, तत्र ज्ञातित्वं "अननुपश्यतां एषां भावतः प्रतिपत्तिः भविष्यतीति भगवताऽवबुद्धम्, ततो ज्ञातिनिमित्तं-परिहारो दत्त इति उक्तमिति। आग्नेयोऽत्र प्रवृत्तः अग्निपरिचरणकर्मणि भावतः, तदाशय [-परिशुद्धौ वर्त-]'मानो गृहीत इति वेदितव्यम्, तद्भूतस्य आशयविपत्ते: असंभाव्यत्वात् ॥ कृत् एतद् तीर्थ्य-अनाराधितादि-तीर्थ्यान्त-वर्ज[न]म् इति शब्दात् पूर्वतीर्थ्यशब्दं वर्जयित्वा, 'अनाराधितचित्तं' उत्सृज्य 'शाक्यं आग्नेयं च जटिलं तीर्थ्य' इत्येतच्च अनाराधितशब्दादि-तीर्थ्यशब्दान्तं वर्जयित्वा यदेतद् 'मासि' इत्याद्युक्तं त-पत्कृत्-संज्ञं वेदितव्यम् । यत्र 'कृत्' इत्युच्यते तत्र 'माऽसि' इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न प्रव्राजयेयुः उपसंपादयेयुर्वा' इति उच्चारितं प्रतिपत्तव्यम् । कृत्-प्रदेशा इति ऊर्ध्व अत्रैव प्रव्रज्यावस्तुनि क्षुद्रकेषु च एतद्गतेषु ॥ कियता तीर्थ्यः आराधितचित्तो वक्तव्यः इति निर्ज्ञानार्थं आह- (१०५) रत्नानां वर्णस्य तीर्थ्यानामवणंस्य भूतस्य उक्तौ अकुप्यत्वं पाराधितचित्तता ॥ न कुप्यतीति अकुप्यम्, अकुप्यद्भावोऽकुप्यत्वम् ॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134