________________
१ प्रव्रज्यावस्तु ०पिलिन्दवत्सः च गङ्गादेव्यै 'वृषली'ति चोदितवान् इत्यादि । अन्यच्च, विनयपरिज्ञानं कथमपि न कृतं भवति, दुष्करत्वात् । स्थूलकुमार्योः सार्धं एकभूमौ अनवस्थानवत् उद्यमेषु च अन्तरायबाहुल्यात् । यतः प्रकरणमिदं विविधं भवति ॥] [Plate II 2b]' (यदुत) चेत् भदन्त त्रैविद्यः त्रिवर्ष-त्रिमलप्रहोणः, स च पञ्चभिर्धर्मैः समन्वागतः [न]27 स्यात्, तेनाऽपि अनिश्रितेन जनपदचारिका चरितव्या ? नोपालिन् इत्युक्तम् ॥ ३॥ रक्ष्यं चानेन विनयगतं, दूरेण दूरं अपसारयतु एनं परिहृततासंपत्त्यर्थम् । यदध्याचारात् परेषां अप्रसादः स्यात् तत्परिहारार्थम् । शिक्षासु कृतार्थोऽपि अत्रादरवान्, गौरवोत्पादनार्थम् । [शास] नस्थित्यर्थं च प्रसिद्धताद्यतिक्रमो गच्छति। केनचिदतिक्रमे सति इति ध्वंसोऽन्यथा शासनस्य संपद्यते । तस्मात्, यथैव अन्यस्य अत्र अननुज्ञानं तथैव त्रैविद्यस्य ॥ निश्रयगतम् ॥
(iv) संग्राह्यगतम् . (१०३) माऽसि 400 तीर्थ्यः इति प्रव्रज्याथं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च ।। पृच्छेत् इत्युपाध्यायः ।। पृच्छेयुः इति परिणतस्य उपसंपादका इ-] ३त्यनेन संबंधः । उपसंपादकैरेव स प्रश्नः यो रहोनुशासकेन, तन्नियुक्तत्वात्तस्य ॥ (१०४) न-अनाराधितचित्तं, उत्सृज्य शाक्यं प्राग्नेयं च जटिलं, तीर्थ्य प्रव्राजयेयुः उपसंपादयेयुर्वा । शाक्याग्नेयजात्योः नूनं किञ्चिदाशयसभाग्यं लक्षितम्-'नियतं अनयोः प्रतिपत्तौ सत्यां भा[वतः प्रति-]पत्तिः, न कृतकेन' इति ॥ यतः एतदनुज्ञातमिति प्रतिपत्तव्यम्-यच्च उक्तं-'ददाम्यहं ज्ञातीनां ज्ञातिपरिहारमि'ति, तत्र ज्ञातित्वं "अननुपश्यतां एषां भावतः प्रतिपत्तिः भविष्यतीति भगवताऽवबुद्धम्, ततो ज्ञातिनिमित्तं-परिहारो दत्त इति उक्तमिति। आग्नेयोऽत्र प्रवृत्तः अग्निपरिचरणकर्मणि भावतः, तदाशय [-परिशुद्धौ वर्त-]'मानो गृहीत इति वेदितव्यम्, तद्भूतस्य आशयविपत्ते: असंभाव्यत्वात् ॥ कृत् एतद् तीर्थ्य-अनाराधितादि-तीर्थ्यान्त-वर्ज[न]म् इति शब्दात् पूर्वतीर्थ्यशब्दं वर्जयित्वा, 'अनाराधितचित्तं' उत्सृज्य 'शाक्यं आग्नेयं च जटिलं तीर्थ्य' इत्येतच्च अनाराधितशब्दादि-तीर्थ्यशब्दान्तं वर्जयित्वा यदेतद् 'मासि' इत्याद्युक्तं त-पत्कृत्-संज्ञं वेदितव्यम् । यत्र 'कृत्' इत्युच्यते तत्र 'माऽसि' इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न प्रव्राजयेयुः उपसंपादयेयुर्वा' इति उच्चारितं प्रतिपत्तव्यम् । कृत्-प्रदेशा इति ऊर्ध्व अत्रैव प्रव्रज्यावस्तुनि क्षुद्रकेषु च एतद्गतेषु ॥ कियता तीर्थ्यः आराधितचित्तो वक्तव्यः इति निर्ज्ञानार्थं आह- (१०५) रत्नानां वर्णस्य तीर्थ्यानामवणंस्य भूतस्य उक्तौ अकुप्यत्वं पाराधितचित्तता ॥ न कुप्यतीति अकुप्यम्, अकुप्यद्भावोऽकुप्यत्वम् ॥