________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् यद् आपत्तिव्यवस्थानस्य पश्चात् करणदेशना संघावशेषप्रतिदेशना च, तस्मात् पोषधस्थापनवस्तुनः । 'भिक्षूणां महाविहार' इत्यनेन शयनासनवस्तुनः । अधिकरणसामर्थ्यप्रदर्शनार्थ अपि आपत्तिपोषधव्यवस्थापनात् अधिकरणवस्तुनः । वचनाङ्गभूतं तज्जातीय-अन्यच्छीला (चारो इति) द्विविधत्वेन प्रातिमोक्षः वस्तूनां शेषश्च । क्षुद्रकाणां मातृकागतवस्तूनां च उक्तिः इत्यादीनां निर्देशः पृच्छा। चर्यानिर्देशस्तु पृच्छा-विनीतकरणानि । चर्मवस्त्वादयः दारकेषु । तथाहि एतदनवशिष्टं प्रातिमोक्षविस्तरत्वं न भवति। विभङ्गमात्रेण प्रवृत्ते प्रव्रज्यादिकरणं न भवति, एवं करणीयत्वेष्वपि एतन्मात्रप्रदर्शनत्वात् ॥ (९९) वृद्धाभावे नवकं निश्रयेत् ।। यदि वृद्धः येन केनाऽपि प्रतिरूपकेन पञ्चकेन समन्वागतः न स्यात्, तदाऽयं विधिः--भदन्तः भिक्षुः उपसंपदः ऊनषष्टिवर्षः, अनेन प्रातिमोक्षसूत्रं विस्तरेण उद्गृह्य पठित्वा (धारितं) न भवति तेन, अन्यत्र प्रक्रमितं वा तेन, उपालि, अन्यनिश्रयेण भवितव्यम् इति उक्तम् । अत्र षष्टिवर्षः अस्वतंत्रः (= निश्रितः) अपि बाहुश्रुत्यस्य विशेषाभावात् 'वृद्धाभावे' इत्यादि उक्तम् । (१००) सामीचि केवलं स्थापयित्वा । इत्यस्मिन् वन्दना न शीलव्रते पाँपन्ना, अन्यत्र वृद्धस्य निश्रितेन नवकेन (सह) अनुसंवोसयितव्यः इत्यभिप्रायः ॥ (१०१) चरेत् अनिश्रितः पञ्चवर्षः पश्चिमसमायोगेन समन्वितः जनपदचारिकाम् ॥ आपत्ति अनापत्ति-इत्यादिः पश्चिमसमायोगः, तेन च समन्वितः पञ्चवर्षः अनिश्रितः जनपदचारिकां चरेत् ॥ (१०२) नान्यथा त्रैविद्योऽपि ॥ पञ्चधमैः समन्वागतः, ऊनपञ्चवर्षोऽपि, यतो मार्गात् विनयभ्रष्टोऽपि ततो पञ्चवर्षशीलभाव-समायोगात् दुःखविपरिणतो भवति । अपरिपूर्णवर्षों न भवति इत्यत्र अभिसंधिः दृष्टः । 'विद्यौऽपि' इति । निश्रये निश्रितार्थ करणीयाकरणीयपरिज्ञानं द्विविधं च परिविनीतम् ॥ तत्र यद्यपि अस्य धर्मता अभिज्ञानत्वात्, पूर्वनिवासज्ञानत्वेन प्रवृत्ति-दर्शनत्वात्, दुष्करअल्पसंवित्प्रतिसेवनया आगतसंपदा च करणीयाकरणीयेषु परिज्ञानं सिद्धं भवति । एवं परिविनेयार्थं निश्रयं निश्रयेत् । यदर्थेन दुःखव्यवहारविनयत्वे पूर्वात्म-सहितभावस्य स्वभावपरिहारात् । अर्हतां पूर्वस्वभावपरिहारः श्रूयते । कश्चिदहन पूजाक्षेत्रः, पूजाक्षेत्रेभ्यः संतीर्णः, आयुष्मान्