Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 57
________________ १० विनयसूत्रवृत्त्यभिधानस्वव्याख्यानम् रात्रि निश्रयेणोषितो भवति' इति । अतः प्रभृति अस्य परिपूर्णरूपत्वं अर्वाक् तत्स्पृष्टिमात्रकं अगतपर्यन्तं अकृतत्वेन मनसि निलीयमानं न निश्रयसंख्यां गन्तुमर्हति ॥ (३२) पाठस्य त्रिरेकगाथा - परिवर्तनम् ॥ यस्यान्तिकात् पठनाभिप्रायेण त्रिरेकागाथा परिवर्तिता स पाठाचार्यः । एवं हि पाठस्य पर्यन्तः । तथा च ग्रंथ : - 'पाठाचार्यः कतमः ? यस्यान्तिकात् " आवृत्तस्य द्विकाऽपि गाथा त्रिः परिवत्यं उद्गृहीता भवति' इति । तद् [य]मत्र आर्ष ग्रन्थाभिप्रायो लक्ष्यते ॥ पाठाचार्येण उक्तस्य पठितुः अनुवदनमुद्ग्रहः । सकृदुक्तौ च स्पृष्टिमात्रकं अपरिपूर्णरूपं पठनं मनसि निलीयते । त्रिःप्रभृति तु गतपर्यन्त इव प्रबन्धोऽवलक्ष्यते। तस्मात् एष न्याय्य: 8 पाठपर्यन्तः इति ॥ आचार्यो रत्नसिंहस्तु आह - पाठपर्यन्ताः एवं विधा एव यद्दर्शनात् तेनेदं सूत्रं प्रणीतम् ॥ एवं तु युज्यते, यस्माद् यदसौ ग्रन्थं अनपेक्ष्य सूत्रयति ॥ तत्रोपपत्तिमाचष्टे, इदं तु युक्तिमन्तरेण सूत्रमात्रमेवोपनिबद्धम्, तस्य नियमेनात्र क्वचिदेवंरूपेण आर्षेण भवितव्यमिति ॥ (३३) नाऽपठनाभिप्रायेण उच्चारणे पाठत्वम् ॥ अपठनाभि [ प्रायेण ] यदुच्चारणं । तद्यथा, स्वाध्यायनिकादी पाठ एवासो न भवति । अभ्यसनाभिप्रायेण उच्चारणे अस्य व्यवहारस्य प्रसिद्धत्वात् । तस्मात् नातः आचार्यत्वस्योत्थानम् ॥ (३४) नान्यथा एनौ उपपदयेत ॥ एनौ आचार्योपाध्यायो । उपो[च्चारि] " पदं उपपदम् । आयुष्मन्तभदन्त - स्थविरोपपदेः नोपपदयितव्यो । निरुपपदनामग्रहणं तु अनयोः [' वृद्धस्य निरु[Plate I 5 b] 'पपदं नाम न " गृह्णीयात्' इत्यनेनैव प्रतिषिद्धं वेदितव्यम् ॥ आचार्यः 'आचार्य' एव वक्तव्यः । उपाध्यायश्च ' उपाध्याय' इति ॥ (३५) नैवमन्यमिति ॥ आचार्योपाध्यायाभ्यामन्यः पुद्गलः उपाध्यायाचार्यशब्दाभ्यां नोपपदयितव्यः ॥ ( ३६ ) नानुक्त्वा सहितं श्रर्थहेतोः नाम गृह णामि इत्युपाध्यायनाम गृह्णीयात् ॥ सहितमिति उपाध्याय नामग्रहणेन । अर्थहेतोः नाम गृह्णामीत्यनेन वाक्येन सहितं उपाध्यायनाम गृह्णीयात्, नैतत्पदं अनुक्त्वा इत्यर्थः ॥ तच्चास्मिन् समनन्तरसहितकरं, " यत्र . वचने विरतोऽयं प्रवृत्तेः इति बुद्धिः ॥ श्रामणेरत्वोपनयविधिः ॥ (ii) उपसंपद्विधिः (३७) संघादुपसंपत् ॥ न यथा प्रव्रज्याश्रामणेरत्वोपगमश्च पुद्गलात्, अपितु संघादुपसंपत् ।। (३८) उपाध्यायतायां उन्मुखीभूतः कर्मकारकं श्रधीच्छेत् रहोनुशासकं च भिक्षुम् ॥ उपाध्यायतायां उन्मुखीभूत इति उपसंपदुपाध्यायत्वेन प्रत्युपस्थितः । प्रधीच्छेत् इति अध्येषेत् । रहोनुशासकञ्चेति अधीच्छेत् । भिक्षुमिति रहोनुशासकार्थं भिक्षुग्रहणं, न कर्मकारकार्थम् । कर्मपरिभाषायां यः कर्मविधिरुक्तः तत एव तस्य भिक्षुत्वसिद्धेः ॥ ( ३९ ) उपाध्यायं यांचेत । इति उपसंपाद्यः [संघ]४-मध्ये ।। (४०) स स्वयमेनं त्रिचीवरमधिष्ठापयेत् ॥ स इति

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134