Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 62
________________ १ प्रव्रज्या वस्तु उच्यन्ते । (८०) ग्लानोपस्थान - कौ कृत्यप्रतिविनोदन पापकदृष्टिगत प्रतिनिःसर्गप्रनभिरतिस्थानप्रमीलनानां करणकारणे सामर्थ्यम् ॥ कौकृत्यप्रति विनोदनकरणसामर्थ्यग्रहणेन [विनये स्थितार्थ - ] त्वस्य प्रतिपादनम् । दृष्टिगत प्रतिनि : सर्गग्रहणेन धर्मंस्थिती कुशलत्वस्य । अनभिरतिस्थितिप्रमीलनग्रहणेन अपयुज्यत्वस्य आदेयवाक्यत्वस्य वा ॥ नात्र कारणग्रहणेन अशक्तेनाऽपि करणं कृतं मन्तव्यम् । अपि तु विनेयवशात् गम्यत्वे सति, परप्रवर्तनायां व्यापारगमने सामर्थ्यस्य उपगृहीतत्वम् । एवञ्च [Plate I 8 a]' अत्र भवति अनतिलङ्घ्यस्य कारणस्य विनये स्थितार्थत्वस्य अलङ्घनम् ॥ ( ८१ ) प्राक्शंक्षत्वात् श्रपञ्चके स-शीलवत्ता बाहुश्रुत्यम् || शैक्षत्वं अशैक्षता इत्यतः प्राक् यत्सहोक्तं पञ्चकं न भवति, तद्यथाश्रद्धाशीला दिसमायोगाभ्यामन्ये समायोगाः तद् शीलवत्तयाऽपि बाहुश्रुत्येन च सहितं वेदितव्यम् । सह शीलवत्ता - बाहुश्रुत्याभ्यां शीलवत्ता - बाहुश्रुत्यं पञ्चकम् । शीलवत्ता अत्र दुःशीलेन सार्धं संवासस्यैव अयोगात् प्रतिविशिष्टा, यथा कल्याणोऽयम् इति मन्यन्ते [सा]स्य वेदितव्या ॥ बाहुश्रुत्यं पुनः यस्मिन् समायोगे पिटकानां ग्रहणं विद्यते, तत्र तद्विपक्षभूतानां परप्रवादानां वस्तु-पद-वाक्याद्यङ्गानां, छन्दोविचित्यादेः, इतिहासवृत्तकानां वा अभिज्ञत्वं यत्र न विद्यते तत्र पिटकानां ग्रहणं बोद्धव्यम् ॥ ( ८२) पिट - काभिज्ञत्वम् ॥ सूत्र- विनय-मातृकाभिज्ञत्वं शीलवत्ता बाहुश्रुत्यं च प्रक्षिप्य पञ्चकम् । विनये उक्तम् — 'सूत्रधरो, विनयधरो, मातृकाधरः सूत्रव्यक्तो, विनयस्य व्यक्तो, मातृकायाः व्यक्तः; सूत्रकुशलो, विनयकुशलो, मातृकाकुशलः; सूत्रकोविदो, विन[य]कोविदो, मातृकाकोविदः' इति । तत्र उद्गृहीतस्या * विस्मृतिः सूत्रादिधारणम्, पिटकत्रये चेदम् ॥ एकत्र 2 " गतस्य इतरत्रदर्शनात् सांकर्येण अवस्थितम् । तथावस्थितस्यास्य विवेकेन परिच्छेदसामर्थ्यं इदं कौशलम् ॥ युक्त्यागमाभ्यां सूत्रादियोजनं कोविदत्वम् ॥ तथा योजितेन यत्परप्रतिपादनसामर्थ्यम् एतद् व्यक्तत्वम् ॥ सहाविस्मृत्या सर्वमेतद् श्रभिज्ञत्वमिति सामान्येन अभिज्ञावचनेनोक्तम् ॥ ( ८३ ) ग्राहेण एषां प्रतिबलत्वम् || पिटकानां नानभिज्ञः तेषु तद्-ग्राहणे प्रतिबलो भवति, तस्मात् विशेषस्यैतद् पिटकाभिज्ञवचनं वेदितव्यम् ॥ ( ८४) प्रधिशील चित्तप्रज्ञा शिक्षत्ता ॥ शिक्षद्भावः शिक्षत्ता, द्वंद्वैकवद्भावः ॥ श्रधिशीलग्रहणेन सर्वस्य विनयवृत्तस्य ग्रहणम्, अधिचित्तग्रहणेन [ ध्यानानाम् ], अधिप्रज्ञग्रहणेन सत्यदर्शनाभ्यासस्य ॥ ( ८५) प्रतिबलत्वं वा शिक्षणायाम् || अधिशीलादाविति संप्रत्ययोत्पादनार्थं वा-शब्दः कृतः, न विकल्पार्थम् । नाशिक्षितः 7 अधिशीलादौ तच्छिक्षणे प्रतिबलो भवति । विशेषस्यैव एतद् 'शिक्षा' इति वचनं इति वेदितव्यम् ॥ ( ८६) एवं अध्याचारविनयं प्रातिमोक्षम् इति । एवं इति अनेन शिक्षत्ता, प्रतिबलत्वं वा शिक्षणायां 7 इत्यस्य १५ ७

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134