________________
१ प्रव्रज्या वस्तु
उच्यन्ते । (८०) ग्लानोपस्थान - कौ कृत्यप्रतिविनोदन पापकदृष्टिगत प्रतिनिःसर्गप्रनभिरतिस्थानप्रमीलनानां करणकारणे सामर्थ्यम् ॥ कौकृत्यप्रति विनोदनकरणसामर्थ्यग्रहणेन [विनये स्थितार्थ - ] त्वस्य प्रतिपादनम् । दृष्टिगत प्रतिनि : सर्गग्रहणेन धर्मंस्थिती कुशलत्वस्य । अनभिरतिस्थितिप्रमीलनग्रहणेन अपयुज्यत्वस्य आदेयवाक्यत्वस्य वा ॥ नात्र कारणग्रहणेन अशक्तेनाऽपि करणं कृतं मन्तव्यम् । अपि तु विनेयवशात् गम्यत्वे सति, परप्रवर्तनायां व्यापारगमने सामर्थ्यस्य उपगृहीतत्वम् । एवञ्च [Plate I 8 a]' अत्र भवति अनतिलङ्घ्यस्य कारणस्य विनये स्थितार्थत्वस्य अलङ्घनम् ॥ ( ८१ ) प्राक्शंक्षत्वात् श्रपञ्चके स-शीलवत्ता बाहुश्रुत्यम् || शैक्षत्वं अशैक्षता इत्यतः प्राक् यत्सहोक्तं पञ्चकं न भवति, तद्यथाश्रद्धाशीला दिसमायोगाभ्यामन्ये समायोगाः तद् शीलवत्तयाऽपि बाहुश्रुत्येन च सहितं वेदितव्यम् । सह शीलवत्ता - बाहुश्रुत्याभ्यां शीलवत्ता - बाहुश्रुत्यं पञ्चकम् । शीलवत्ता अत्र दुःशीलेन सार्धं संवासस्यैव अयोगात् प्रतिविशिष्टा, यथा कल्याणोऽयम् इति मन्यन्ते [सा]स्य वेदितव्या ॥ बाहुश्रुत्यं पुनः यस्मिन् समायोगे पिटकानां ग्रहणं विद्यते, तत्र तद्विपक्षभूतानां परप्रवादानां वस्तु-पद-वाक्याद्यङ्गानां, छन्दोविचित्यादेः, इतिहासवृत्तकानां वा अभिज्ञत्वं यत्र न विद्यते तत्र पिटकानां ग्रहणं बोद्धव्यम् ॥ ( ८२) पिट - काभिज्ञत्वम् ॥ सूत्र- विनय-मातृकाभिज्ञत्वं शीलवत्ता बाहुश्रुत्यं च प्रक्षिप्य पञ्चकम् । विनये उक्तम् — 'सूत्रधरो, विनयधरो, मातृकाधरः सूत्रव्यक्तो, विनयस्य व्यक्तो, मातृकायाः व्यक्तः; सूत्रकुशलो, विनयकुशलो, मातृकाकुशलः; सूत्रकोविदो, विन[य]कोविदो, मातृकाकोविदः' इति । तत्र उद्गृहीतस्या * विस्मृतिः सूत्रादिधारणम्, पिटकत्रये चेदम् ॥ एकत्र 2 " गतस्य इतरत्रदर्शनात् सांकर्येण अवस्थितम् । तथावस्थितस्यास्य विवेकेन परिच्छेदसामर्थ्यं इदं कौशलम् ॥ युक्त्यागमाभ्यां सूत्रादियोजनं कोविदत्वम् ॥ तथा योजितेन यत्परप्रतिपादनसामर्थ्यम् एतद् व्यक्तत्वम् ॥ सहाविस्मृत्या सर्वमेतद् श्रभिज्ञत्वमिति सामान्येन अभिज्ञावचनेनोक्तम् ॥ ( ८३ ) ग्राहेण एषां प्रतिबलत्वम् || पिटकानां नानभिज्ञः तेषु तद्-ग्राहणे प्रतिबलो भवति, तस्मात् विशेषस्यैतद् पिटकाभिज्ञवचनं वेदितव्यम् ॥ ( ८४) प्रधिशील चित्तप्रज्ञा शिक्षत्ता ॥ शिक्षद्भावः शिक्षत्ता, द्वंद्वैकवद्भावः ॥ श्रधिशीलग्रहणेन सर्वस्य विनयवृत्तस्य ग्रहणम्, अधिचित्तग्रहणेन [ ध्यानानाम् ], अधिप्रज्ञग्रहणेन सत्यदर्शनाभ्यासस्य ॥ ( ८५) प्रतिबलत्वं वा शिक्षणायाम् || अधिशीलादाविति संप्रत्ययोत्पादनार्थं वा-शब्दः कृतः, न विकल्पार्थम् । नाशिक्षितः 7 अधिशीलादौ तच्छिक्षणे प्रतिबलो भवति । विशेषस्यैव एतद् 'शिक्षा' इति वचनं इति वेदितव्यम् ॥ ( ८६) एवं अध्याचारविनयं प्रातिमोक्षम् इति । एवं इति अनेन शिक्षत्ता, प्रतिबलत्वं वा शिक्षणायां 7 इत्यस्य
१५
७