________________
१६
विनयसूत्रवृत्त्यभिषानस्वव्याख्यानम् परामर्शः ॥ ततश्च द्वावेतो समायोगौ भवतः । तत्र अध्याचारः आसमुदाचारिकम्, विनयः शेषभूतम् । प्रातिमोक्षशिक्षणाः वस्तुविधयश्च सपरिकराः प्रातिमोक्षः तदाख्यः । तत्र पर्यापन्नानि शिक्षापदानि ॥ (८७) श्रद्धा-शील-श्रुत-त्याग-प्रज्ञासंपन्नत्वम् । शीलग्रहणेनात्र विनयस्य ग्रहणम् ॥ (८८) शील-समाधि-प्रज्ञा-विमुक्ति-तज्ज्ञान[Plate I 8b]' दर्शनः ॥ संपन्नत्वमित्यनुबन्धः । शीलसंपन्नग्रहणेन अत्र विनयस्याक्षिप्तत्वं, नान्यथा, भिक्षोःशील-संपत्तेः संभवः इति । तज्ज्ञाने इति तच्छब्देन विमुक्तेः परामर्शः, विभुक्तिज्ञानदर्शनमिति ॥ (८६) सारग्धवीर्यत्वप्राज्ञत्वं च ॥ प्राशेक्षत्वाच्छीलवत्ताबाहुश्रुत्यं इत्यस्य च-शब्दात्प्रत्युपस्थानम् । इत ऊर्ध्वं प्राक्शेक्षत्वात् यत्सहोक्तं पञ्चकं न भवति तदारब्धं-वीयंत्वप्राज्ञत्वाभ्यां च सहोक्तं वेदितव्यम् । शीलवत्ताबाहुश्रुत्याभ्यां च त्रीण्यत्र एककान्युक्तानि-(६०-६२) स्मतिमत्वम् ॥ प्रतिसंलीनत्वम् ॥ समाहितत्वम्। इति ॥ तेषां एतच्चतुष्क-पूरणम्-शीलवान् भवति बहुश्रुतः, आरब्धवीर्यः, प्राज्ञः, स्मृतिमान् । पुनरेतच्चतुष्कमुक्त्वा प्रतिसंलोनश्च भवतीति वक्तव्यम्। पुनः समाहित इति ॥ (९३) शंक्षत्वमिति ।। शक्षण' शीलस्कन्धेन समन्वागतो भवति । शैक्षेण समाधि-प्रज्ञा-विमुक्ति-विमुक्ते: ज्ञानदर्शनस्कन्धेन इत्यस्य एष संग्रहः ॥ (६४) अशैक्षता इति ॥ अशैक्षेण शीलस्कन्धेन इत्यादेः यद् अनयोः धर्मता-विनियतं वृत्तं तत्र यत्साध्वसाधुतापरिज्ञानं, तद् तावत् अनयोः आधिगमिकमेव । यदापत्तिव्यवस्थापरिज्ञानं [यच्च शिष्टस्य] विनयविधेः, तत्राप्येतो दशवर्षादित्वात् स्वातन्त्र्ये व्यवस्थितौ नियतं कृतप्रयत्नौ इति न अत्र अनतिलध्यकारणा[द्] अतिलंघनं कृतं वेदितव्यम् ॥ (६५) उत्पत्ति-प्रज्ञप्ति-अनुप्रज्ञप्ति-प्रतिक्षेप-अभ्यनुज्ञाभिज्ञत्वम् ॥ अत एतद् उत्पन्नमिति शिक्षापदोत्पत्तिनिदाने अस्योत्पत्तिशब्देनाभिधानम् । शिक्षापदव्यवस्थापनं प्रज्ञप्तिः । "प्रज्ञप्तिग्रहणेन इयता अन्तिके 7 च स्थूलात्ययो देशयितव्यः इत्यादः ग्रहणम् । इदमत्र पुनः प्रतिक्षिप्तं अभ्यनुज्ञातं चेति अनुप्रज्ञप्तिः। तद्यथा-उपानदभ्यनुज्ञानेन सणसणापत्तिः इत्यादेः विशेषस्य प्रतिषेधः । अकालभोजनप्रतिक्षेपे च ग्लानस्य वैद्यवचनावभ्यनुज्ञानम् । अत्यन्तमिदं न कर्तव्यमिति हि विधानं प्रतिक्षेपः । तद्यथा-तृणाग्रेणापि मद्यस्यापानं अब्रह्मचर्यादि च। अभ्यनुज्ञा पुनः यस्य करणीयस्य अकरणे वा नाऽस्ति दोषः कामचारोऽत्र प्रवृत्तौ। तद्यथा-परवादिनिग्रहार्थ बहिःशास्त्राणि अध्येयानीत्यादि। अत्र अकरणे करणे [च] न कश्चिदापत्तिदोषः। एतावच्च करणीयाकरणीयपरिज्ञानं प्रतिविनये शेयम् । तदेतद् अविनयाभिज्ञत्वं अधिकं पञ्चकेन ख्यापितं वेदितव्यं, आपत्त्यादिपञ्चकेन च ॥ (६६) प्रान्तरायिक-अनान्तरायिकाभिज्ञत्वं आख्यापिताऽ नशासकत्वं (च) ॥ आन्तरायिक-अनान्तरायिक-अभिज्ञत्वं च आख्यापिता च अनुशास