________________
१०
विनयसूत्रवृत्त्यभिधानस्वव्याख्यानम्
रात्रि निश्रयेणोषितो भवति' इति । अतः प्रभृति अस्य परिपूर्णरूपत्वं अर्वाक् तत्स्पृष्टिमात्रकं अगतपर्यन्तं अकृतत्वेन मनसि निलीयमानं न निश्रयसंख्यां गन्तुमर्हति ॥ (३२) पाठस्य त्रिरेकगाथा - परिवर्तनम् ॥ यस्यान्तिकात् पठनाभिप्रायेण त्रिरेकागाथा परिवर्तिता स पाठाचार्यः । एवं हि पाठस्य पर्यन्तः । तथा च ग्रंथ : - 'पाठाचार्यः कतमः ? यस्यान्तिकात् " आवृत्तस्य द्विकाऽपि गाथा त्रिः परिवत्यं उद्गृहीता भवति' इति । तद् [य]मत्र आर्ष ग्रन्थाभिप्रायो लक्ष्यते ॥ पाठाचार्येण उक्तस्य पठितुः अनुवदनमुद्ग्रहः । सकृदुक्तौ च स्पृष्टिमात्रकं अपरिपूर्णरूपं पठनं मनसि निलीयते । त्रिःप्रभृति तु गतपर्यन्त इव प्रबन्धोऽवलक्ष्यते। तस्मात् एष न्याय्य: 8 पाठपर्यन्तः इति ॥ आचार्यो रत्नसिंहस्तु आह - पाठपर्यन्ताः एवं विधा एव यद्दर्शनात् तेनेदं सूत्रं प्रणीतम् ॥ एवं तु युज्यते, यस्माद् यदसौ ग्रन्थं अनपेक्ष्य सूत्रयति ॥ तत्रोपपत्तिमाचष्टे, इदं तु युक्तिमन्तरेण सूत्रमात्रमेवोपनिबद्धम्, तस्य नियमेनात्र क्वचिदेवंरूपेण आर्षेण भवितव्यमिति ॥ (३३) नाऽपठनाभिप्रायेण उच्चारणे पाठत्वम् ॥ अपठनाभि [ प्रायेण ] यदुच्चारणं । तद्यथा, स्वाध्यायनिकादी पाठ एवासो न भवति । अभ्यसनाभिप्रायेण उच्चारणे अस्य व्यवहारस्य प्रसिद्धत्वात् । तस्मात् नातः आचार्यत्वस्योत्थानम् ॥ (३४) नान्यथा एनौ उपपदयेत ॥ एनौ आचार्योपाध्यायो । उपो[च्चारि] " पदं उपपदम् । आयुष्मन्तभदन्त - स्थविरोपपदेः नोपपदयितव्यो । निरुपपदनामग्रहणं तु अनयोः [' वृद्धस्य निरु[Plate I 5 b] 'पपदं नाम न " गृह्णीयात्' इत्यनेनैव प्रतिषिद्धं वेदितव्यम् ॥ आचार्यः 'आचार्य' एव वक्तव्यः । उपाध्यायश्च ' उपाध्याय' इति ॥ (३५) नैवमन्यमिति ॥ आचार्योपाध्यायाभ्यामन्यः पुद्गलः उपाध्यायाचार्यशब्दाभ्यां नोपपदयितव्यः ॥ ( ३६ ) नानुक्त्वा सहितं श्रर्थहेतोः नाम गृह णामि इत्युपाध्यायनाम गृह्णीयात् ॥ सहितमिति उपाध्याय नामग्रहणेन । अर्थहेतोः नाम गृह्णामीत्यनेन वाक्येन सहितं उपाध्यायनाम गृह्णीयात्, नैतत्पदं अनुक्त्वा इत्यर्थः ॥ तच्चास्मिन् समनन्तरसहितकरं, " यत्र . वचने विरतोऽयं प्रवृत्तेः इति बुद्धिः ॥ श्रामणेरत्वोपनयविधिः ॥
(ii) उपसंपद्विधिः
(३७) संघादुपसंपत् ॥ न यथा प्रव्रज्याश्रामणेरत्वोपगमश्च पुद्गलात्, अपितु संघादुपसंपत् ।। (३८) उपाध्यायतायां उन्मुखीभूतः कर्मकारकं श्रधीच्छेत् रहोनुशासकं च भिक्षुम् ॥ उपाध्यायतायां उन्मुखीभूत इति उपसंपदुपाध्यायत्वेन प्रत्युपस्थितः । प्रधीच्छेत् इति अध्येषेत् । रहोनुशासकञ्चेति अधीच्छेत् । भिक्षुमिति रहोनुशासकार्थं भिक्षुग्रहणं, न कर्मकारकार्थम् । कर्मपरिभाषायां यः कर्मविधिरुक्तः तत एव तस्य भिक्षुत्वसिद्धेः ॥ ( ३९ ) उपाध्यायं यांचेत । इति उपसंपाद्यः [संघ]४-मध्ये ।। (४०) स स्वयमेनं त्रिचीवरमधिष्ठापयेत् ॥ स इति