________________
१ प्रव्रज्यावस्तु उपाध्यायः । स्वयमिति नाऽत्र उच्छ्वासकल्पो मुण्डनादाविव अस्य, स्वयमेतत्कर्तव्यमित्यर्थः । एनमिति उपसंपाद्यम् । सति संभवे, [अधिष्ठापयेत्] 7 छिन्नस्यूतम्, असति अन्यदिति चीवरवस्तुनः प्रतिपत्तव्यम् । वेषार्थत्वात् अधिष्ठानं, अधिष्ठानानन्तरं एषां प्रावरणमिति मन्तव्यम्॥ (४१) पात्रं चोपदर्श्य मोनं अधिकं पाण्डरे(sick) वेति संघे ॥ उपदर्य इति संघे इत्यनेनास्य संबन्धः ॥ किमर्थमुपदर्शनमित्याह-मोनमधिकं पाण्ड[रं]वेति एतद्दोषपरिहारार्थ, एवंविधस्य अधि[ष्ठा]नमन्याय्यम् । उपदर्श्य संघे अधिष्ठापयेत् इत्यनुवर्तते ॥ (४२) सुपात्रमिति अनेवंत्वे ब्र युः सर्वे ॥ इति यथासंनिपतिता भिक्षवः। एवं-भावः एवंत्वम् । [तदूनत्वा] -दिदोषोपेतत्वम् । नैवं-त्वं अनैवं-त्वं, एतद्दोषविमुक्तत्वं इत्यर्थः ॥ (४३) अपक्रमिते, क इति प्राख्याप्य रहोनुशासकं उत्साह्य कर्मकारकः संघ एनमनुज्ञापयेत् ॥ अपक्रमित इति मण्डलकस्थानादन्यत्र अपनीतोपसंपाद्ये, रहोनुशासकगतस्य कर्मणो न श्रवणं, अत्र अपकासनार्थः, नाऽन्यो दृश्यते । तस्मात् यत्र स्थितस्यास्य एतच्छवणं न गच्छति, तत्र इति कर्मविधेः गन्तव्यम् । पुरस्ताद् वक्ष्यते-दर्शनोपविचारे एनं अपकासनेन स्थापयेयुः गणाभिमुखं प्रगृहीताञ्जलिमिति । क इति आख्याप्येति कोऽधीष्टः एवं-नाम्ना एवं-नाम्ना रहोनुशासकः इत्यनेन मन्त्रेण 'अहमेवं-नामा' इत्याख्याप्य रहोनुशासकम् । उत्साह्य इति त्वमेव रहोनुशासकः, उत्सहसे त्वं इत्या[Plate I 6a] 'दिना एनमिति रहोनुशासकं अनुज्ञापयेत् इति । एतदर्थ कर्मकारकः ज्ञप्तिं कुर्यात् ॥ केचित् एतद्गते मन्त्रे यत् संघस्य एवं-नामानं रहोनुशासकं संमन्येत इति पठन्ति तद् अयुक्तम्, कर्मवाचनायाः अपि कर्तव्यताऽपत्तेः, अकारणाच्चास्याः। नैषा संमतिरनुज्ञपनमेतद्, इति व्यवस्था। तद् यदेवं-नामा रहोनुशासकः एवं-नामानं रहसि अनुशिष्यादित्यत्र [अभ्यनुज्ञायां युक्तं,' तदनु] "ज्ञपनं एवं सूत्रितं, न संमतिः॥ (४४) श्रुणु त्वमिति रहसि अनुशिष्यात्३२॥ रहोनुशासक इति सामर्थ्यात् गन्तव्यम् ॥ श्रुणु त्वमायुष्मन्, अयं ते सत्यकालः इत्यादेः मन्त्रस्य शृणु त्वमित्यनेन पदेन् उल्लिङ्गनम् । तिष्ठ, माऽशब्दितः आगमिष्यसि इत्येनमुक्त्वा इति समनुशिष्टे ॥ (४५) समनुशिष्ट इति संघाय परिशुद्धि निवेद्य ॥ इति व्यवस्था ॥ श्रुणोतु भदन्तः संघोऽय मनुशिष्टो मया एवं-नामेत्यादिना मन्त्रेण । किमागच्छतु इति आगमनं पृच्छेत् ॥ इति संघः ॥ (४६) स चेत् परिशुद्ध इति सर्वे ब्रूयुः ।। इति उपसंपादक-भिक्षवः ॥ केचिदत्र पूर्वत्र च प्रवज्यार्थमारोचनावचने प्रतिवचनं अधीयते-सर्वसंघेन वक्तव्यं स चेत् परिशुद्ध इति । तेन वक्तव्यं परिशुद्ध इति-तदनुपपन्नम्। वक्तुरेतिद्भारारो]"पणं, रहोनुशासकेन प्रथममेवाख्यातत्वात् ॥ (४७) उपसंपदं कर्मकारको याचयेत् ॥ उप[संप]त्प्रेक्षो। (४८) अनुजापयित्वा संघ आन्तरायिकं पृच्छेत् ॥ आन्तरायिकपरिप्रश्नार्थ ज्ञप्तिं कृत्वा ।