________________
१ प्रव्रज्यावस्तु
29
येनार्थेन असौ उपाध्यायः तस्मिन्नवसितेऽर्थे जातत्वमित्याह - (२७) श्रभ्युपगतावु - पाध्यायस्य यावायां तदुद्भूतिः ॥ याञ्चाकाले उपाध्यायस्य याऽभ्युपगतिः तस्यां उपाध्यायत्वस्य उद्भूतिः । न प्रव्रज्योपनयने उपसंपन्नलक्षणस्य वा आवृत्तेऽर्थे । येनार्थेन वृत्तेनैषां [आचार्यत्वोपा] ४ ध्यायत्वानां जन्म, तस्यार्थस्य 8 कदा वृत्तता इत्याह(२८) श्रावृत्ती तृतीयेऽङ्गे प्रत्यायां वृत्तत्वम् ॥ यत्रावर्त्ती सोऽर्थो, यदंशं ' ' आचार्यत्वादीनां वृत्तत्वं सा आवृत्तिः । तस्यां अर्थस्य वृत्तत्वम् । तिस्रश्च ताश्चावृत्तयः । तत्र न ज्ञायते क[त]रस्यामावृत्ती आवृत्तेर्वा कतमस्मिन्नंश इति । तत्र इदमुच्यते-तत्र अन्त्यायां पश्चिमा [याम् । तदावृत्ति ] " स्तस्याः तृतीयो योंऽशः तस्मिन् तस्यार्थस्य [वृत्तत्वं] मन्तव्यम् ॥ उदाहरणेन एनमर्थं प्रज्ञपयति - ( २ ) तद्यथा पत्कीर्तनका श्रामणेरत्वस्य || परस्य उपनेतुः उत्कीर्तनकाले । श्रामणेरं च मामित्यतः परस्तात् 'आचार्य' इति यत्परोत्कीर्तनं, तत्र श्रामणेरत्वकारके यः उपनेतुः अर्थः श्रामणेर संवरो नाम, तस्य वृत्त [ त्वं मन्तव्यं, आ-] 'चार्यो धारयतु इत्यत्र मन्तव्यम्, न भदन्तो धारयतु इति ॥ (३०) पश्चिमेऽत्र उपाध्यायत्वस्य इति । वृत्तत्वं इति वर्तते ॥ श्रत्रेति परोकीर्तन का बहूपाध्याययाचने 'समन्वाहर' इति शब्दात् भिक्षुसंबंधोत्कीर्तनात्पराणि उपाध्यायोत्कीर्तनानि । तत्र यत्तृतीयोत्कीर्तनं उपाध्यायेन प्रव्रजिष्यामि उपसंपत्स्ये वा इति, तः पूर्वं यः [तस्मिन्काले] उपाध्यायार्थः तस्य अम्युपगम [स्य ] आत्मनो वृत्तत्वम् । तस्मिन्नेव काले प्रव्रज्यायामुपाध्यायेन इति वक्तव्यम् । उपसंपदि च । यदि पूर्वमेव नोपाध्यायो भवति, नाचार्येण वा, भदन्तेन वा इति । अप्रच्छेदतः चात्र तृतीयोंऽशो " ० वेदितव्यः, नाक्षरपरिमाणतः । एवं हि उपाध्याययाचने त्रयः प्रच्छेदाः भवन्ति - 'अहं एवं-नामा भदन्तमुपाध्यायं याचे' | '[भदन्तो] [Plate I 5a ] ' मे उपाध्यायो भवतु' । 'भदन्तेनोपाध्यायेन प्रवजिष्य, उपसंपत्स्ये वा' इति ॥ श्रामणेरत्वोपगतौ तु प्रबंधप्रच्छेदौशरणगमनं श्रामणेरत्वाभ्युपगमश्च । तत्र पश्चिमं प्रच्छेदं अवान्तरार्थानुगत्या श्रामणेरं मामिति, आचार्यो धारयतु इति द्विधा कृत्वा त्रित्वमध्यवसितम् । कस्मात्पुनः असमामायामेव आवृत्ती तृतीयेऽङ्गत्वस्य वृत्तत्वं भवति, यद्भूयः २ कृतं इति" कृत्वा सर्वेष्वेव चायं सीमाबन्धादिषु विधिर्द्रष्टव्यः । तदेवं रहोऽनुशासकस्य अपर्यवसितायां रहस्यनुशिष्ट आचार्यत्वं श्रामणेरत्वोपनायिनोऽत्र काले कर्मकारकस्य एवंविधमिति कृतम् ॥ निश्रयदायकपाठकयोः कंदा इति न ज्ञायते । अनवस्थितत्वात् निश्रयदानपाठकयोः परिमाणस्य ॥ तत्र यावता अनयोः आचार्यता-कृ [त] त्वं तदाख्यायते—- (३१) पर्यन्तो निःश्रयदानस्येक रात्रं निश्रयत्वेन प्रत्युपस्थानम् ॥ एकरात्रः एकोऽहोरात्रः, एकरात्रम् । निश्रयाचार्यस्य निश्रितं प्रति निश्रयत्वेन यत्प्रत्युपस्थानमेव [पर्यन्तत्वं ], निश्रयदानस्य पर्यन्तः । तथा च ग्रंथ: - 'निश्रयाचार्यः कतमः यस्यान्तिके एकामपि
80