________________
विनयसूत्रवृत्त्यभिधानयस्वव्याख्यानम् ध्यायः प्रावणुयात् । प्रावृण्वंश्च षण्ढ-पण्डक-अव्यञ्जन-उभयव्यञ्जनत्वदोषपरिहारार्थ(१६) व्यञ्जनं प्रत्यवेक्षेत असंचेतितम् ॥ न च विनग्नं कृत्वा, अपि तु असंचेतितंयथाऽसौ न [जा]नी ते 'दृष्टं मेऽनेन व्यञ्जन मिति । अभ्युपगमादुपाध्यायस्यैतत्कर्म । अन्येनाऽपि भिक्षुणा प्रत्ययितेन कृतमागमितम् । कृतमित्येव उपाध्यायेनेति मन्तव्यम् ।। (२०) प्रव्रज्यामुपनयेत् शरणगमनोपक्रमम् ॥ 'अहं एवं-नामा बुद्धं यावद् गणानामग्रयं, तं भगवन्तं शाक्यमुनि 'यावत्प्रव्रज्यालिङ्गं समाददे' इत्यनेन मन्त्रेिणोपाध्याय]:४ शरणगमनप्रारम्भं प्रवज्यामुपनयेत्, न विना शरणगमनेनादिभूतेन इत्यर्थः ।। नन्वयं संवर? इति । कोऽस्यां श[]णगमनोपक्रमत्वेनार्थ इति केचिदाहुः । तदसम्यक् । यस्मात् प्रव्रज्या नाम निवेशनपरित्यागः, सर्वं च सास्त्रवं वस्तु, अभिरतस्य तत्र निवेशनं, तस्मात् संसारवैमुख्यं निवेशनपरित्यागस्य कात्य॑म् । न च निर्वाणा'पाश्रयेण संसारवैमुख्यस्य संपत्तिः। तस्मात्, संवरवत् अत्रापि निर्वाणाशयप्ररूपणं कर्तव्यम् इत्यत्रापि शरणगमनोपक्रमम् । केचित् प्रवज्योपनयनमन्त्रे 'प्रव्रज्यालिङ्गं समाददे' इत्यतः पुरस्तात् 'श्रामणेरं मां उपाध्यायो धारयतु' इति पठन्ति' तदयुक्तम् । प्ररूढस्य पुनः प्ररोहाभावतः, समात्तस्य च समादान [अनुपपत्तेः]६, आचार्येण मन्त्रे चास्य पठितव्येऽनुपपत्तिः । श्रामणेरत्वोपनयनमन्त्रे प्रव्रज्योपगतिरपि तैः पठ्यते-'तं भगवन्तं शाक्यमुनि यावत्प्रव्रज्यालिङ्ग समाददे । अर्थहेतोः उपाध्यायस्य नाम गृह्णामि। एवं नाम्नोपाध्यायेन श्रामणेरं मामाचार्यो धारयतु'इति । समात्तस्य च समादानानुपपत्तेः अयुक्तम् ।। (२१) याञ्चानन्तरं वा ॥ इति प्रव्रज्या[मुपन]- येत इति वर्तते । वा शब्दो मतविकल्पार्थः । केषांचित्पाठः–'उपाध्याययाञ्चानन्तरमेव अनवतारितकेशश्मश्रुः प्रवाजयितव्य' इति । अयमभिप्रायः तेषां यथा श्रामणेरत्वं एवं केशावतारणादिकमपि प्रवजितस्यैव वृत्तमिति । त[त] एव पाठविकल्पस्योपनिबन्धः । एवं प्रव्रज्योपाध्यायः तं -- (२२) श्रामणेरत्वोपनायिने अर्पयेत् भिक्षवे । [Plate I 4 b]' योऽस्य श्रामणेरत्वमुपनयति, श्रामणेरत्वमुपनेतुं शीलमस्येति श्रामणेरत्वोपनायो। यदस्य श्रामणेरसंवरोपनेतुः उपनयनाभिज्ञानं प्रति चेतसः प्रगुणत्वं ए[त]दत्र तच्छील्येन आश्रितं वे[दि]तव्यम् । यस्योपनयनाथ अर्यतेऽसौ-(२३) 'कश्चित् परिशद्ध' इति पृष्ट्वा शुद्धभुपनयेत् ॥ (२४) स आचार्य इति ॥ य एष श्रामणेरत्वोपनायी स आचार्यो द्रष्टव्यः । (२५) २रहोनुशासक-कर्मकारक-निश्रयदायक-पाठकाश्च । आचार्या इति । समुच्चयार्थः च-शब्दः ॥ कियतैषां आचार्यत्वानां जातत्वमित्याह-(२६) वृत्तेऽर्थे भूतत्वम् । इत्याह-येनार्थेन मन्त्र व्यवस्था, तद्यथा-श्रामणेरत्वोपनयनेन अर्थेन श्रामणेराचार्यत्वे वृत्ते तस्मिन्नवसिते अर्थे, आचार्यत्वादेः भूतत्वम्-जातता। तस्मात्
त्वस्यापि
जाना जातत्वं वदितव्यम्।