________________
१ प्रव्रज्यावस्तु
25
[ श्रभ्युपगमरूपेण ] ' इति । अस्य इति उपासकत्व - श्रामणेरत्वाभ्युपगमवचनस्यानन्तरं उपासक-श्रामणेरक शिक्षायाः तच्छिक्षापदानां यथायोगमुत्कीर्तनम् । पूर्वत्र पश्चानाम्, उत्तरत्र दशानाम् । केन प्रकारेण इत्याह- प्रभ्युपगमरूपेण । इतश्च इतश्च प्रतिविरमामि इति, नो तु इदं चेदं च रक्ष्यं यत्त्वया समात्तम् इति ॥ ( ८ ) स्वयं उपासकतां उपनीय, प्रारोचकाय संघस्य अर्पयेत भिक्षवे ॥ स्वयमिति प्रकृतत्वात् उपाध्यायः, स हि तत्प्रव्राजने कृतावकाशः । स स्वयमेवोपासकतामुपनीय उपासकसंवरं दत्त्वा । यस्तं प्रव्रज्यापेक्षं संघस्य आरोचयते, तस्मै समर्पयेत भिक्षवे - 'आरोचयेन' मिति । भिक्षुसंबन्धादस्येति कर्तव्य ताजातस्य । स्वार्थमेवैतदुपाध्यायस्येति प्रदर्शनार्थमात्मनेपदम् ॥ [ ज्ञप्त्यादि ] - कर्मात्मकत्वादस्य अनुपसंपन्नेनापि संघे प्रव्रज्यापेक्षस्य आरोचनं न विरुध्यत इत्यस्य विकल्पस्य व्युदासार्थं भिक्षवे इति वचनम् । तथा च ग्रन्थः—ततः पश्चात् भिक्षुरध्येषितव्यः - योऽस्यारोचयते " इति ॥ आरोचक - Sपि (९) 'कच्चित्परिशुद्ध' इति समर्पितारमुपाध्यायं पृष्ट्वा शुद्धं सन्तं प्रव्रज्यापेक्षं आरोचये [त् ] - "श्रुणोतु भदन्ताः, संघो समन्वाह्रीयतां - अयमेवं-नामा प्रव्रज्यापेक्ष गृहीतावदातवसनः" इत्यादिना मन्त्रेणारोचयेदिति यत्परस्मैपदं तद् परव्यापारेणास्य प्रवृत्तेरस्वार्थत्वात् । न हि अत्र यथा उपाध्याये पुत्र इव प्रवृत्तेः स्वार्थत्वमेवास्य ॥ कथं अवस्थिते संघे आरोचयेदित्याह -- (१०) सर्वसन्निपाते वा [ सन्निषण्णेऽ ] तुलयने वा ॥ अनुपरिगणिका इत्यस्येदं विवरणं अनुलयनमिति । परिगणो हि लयन विशेषः ॥ येषां संनिधौ आरोच्यते तेषां यो विधिः तद्दर्शयन्नाह - ( ११ ) स चेत्परिशुद्ध इति सर्वे ब्र ूयुः ।। स चेत् यदीत्यर्थः । आरोचनोत्तरकालं प्रव्रज्यापेक्षः ॥ (१२) उपाध्यायं याचेत याञ्चामन्त्रेण । उपाध्यायश्चास्य (१३) केश श्मश्रूनव ७ - [ तारयेताचूडम् ] ॥ उपाध्यायत्वेन अधिष्ठापयन् नापितकार्य " संदर्शनार्थं अवतारयेत इति आत्मनेपदम् । न तु एवं मन्तव्यं उपाध्यायेनैवैतद् स्वयं कर्तव्यमिति । न पारंपर्येण कारितमकारितं मन्तव्यं, अर्थार्थत्वात्प्रवृत्तेः । तस्मात् संपन्नेऽर्थे " प्रवृत्तिलोपः । तत्र अप्रतीक्ष्योपाध्यायोपयोगं केशश्मश्रु - अवतारणे अन्येन संपादिते न पुनरुपाध्याये - [Plate I 4a]' नात्र प्रवर्तितव्यमिति मन्तव्यम् ॥ श्राचूडमिति चूडातोऽन्यत् । दढिकापनयेऽपि न तथा वैरूप्यबुद्धिर्यथा स्यात् । तस्मान्निश्वितोऽयं न वा इति प्रश्नेन विज्ञानार्थमस्य स्थापनम् - (१४) अवतार्यतां चूडेति पृष्टेनानुज्ञाते, ताम् ॥ अवतार्यतां चूडा इति पृष्टेन सता प्रव्राज्येन यद्यनुज्ञातं भवति, ततोऽनुज्ञाते तेन चूडावतरणे तां चूडां अवतार [येदि ]त्यनुवर्तते । एवम[व] तारित केशश्मश्रुः (१५) स्नायात् ॥ कालानुरूपेणाम्भसा । स्नानोत्तरकालं च (१६) उपाध्यायः काषा [ या ]णि वस्त्राणि दद्यात् ।। सोऽप्युपाध्यायस्य (१७) पादयोः निपत्य प्रतिगृह णीत ॥ ततः स्वयं तस्य ( १८) उपा
7
7
७