________________
१ प्रव्रज्यावस्तु
किमिति पुनर्वचनम् — 'वर्तमानकल्पाधिकारिकत्वात् प्रगृहीताञ्जलि' मित्यादेः परिभाषातो'' अस्त्यस्येह पुराकल्पे सिद्धिरितिवचनम् ॥ याचितवन्तमिति किम् । प्रव्रज्योपसंपदौ ॥ याचनं पुनः - " शृणोतु, भदन्ताः संघो, अहमेवं-नामा आकाङ्क्षामि स्वाख्याते धर्मविनये प्रव्रज्योपसंपदं भिक्षुभावम्" इति विस्तरः ॥ अनेन मन्त्रेण त्रिर्याचितवन्तं ज्ञप्तिचतुर्थेन कर्मणा इति तिस्रो वाचना ज्ञप्तिचतुर्थी यस्मिन् कर्मणि तद् ज्ञप्तिचतुर्थं कर्म तेन ॥ सहप्रव्रज्योपसंपदौ इति प्रव्रज्योपसंपञ्च समानकालं, न क्रमेणेति । उपनयेयुरिति संघभूता भिक्षवः । तथा च मन्त्रः - - " शृणोतु, भदन्ता: संघो, अयमेवं-नामा आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं यावत् प्रात्राजित उपसंपादित एवं-नामा संघेनेति " ॥ इति पुराकल्पः । इति-शब्दः प्रकारवाच ॥ पुराकल्प इति वर्तमानकल्पात् प्राक् एवं - प्रकारः प्रव्रज्योपसंपद्विधिरित्यर्थः ॥ अथ किमिति वर्तमानकल्प एव भगवता न प्राक्प्रज्ञप्तः, किं वा पुराकल्पत्यागेन अस्य विधेः पुनः प्रज्ञपनम् ? [इति चेत् ], विशुद्धसत्त्वा हि ते तदानीं प्रतिपत्तारः । तेषां न क्रमेण विनियम्यत्वं न परावष्टंभेन परिशिक्षणं वा । [न] ग्लान्यमेषां कृतपुण्यत्वात् असत् ' ' न संपद्यते — ' संपन्ने वा भवन्त्येषां स्वयमेवानुकम्पकाः' । 'आन्तरायिकधर्माणां तदानीं अनापत्तेः । तथाऽपसतॄणां इत्यतः पुराकल्पप्रज्ञपनम् । यदा त्वन्यविधा अप्येते जाताः तदोत्तरस्य सांप्रतं नैव कश्चिदुपयोगः । किमनेनेहोपनिबद्धेन ? | यद्यप्यनेन कल्पेना[धुना]ऽव्यवहारः५, तथापि नास्त्यस्योत्तरादन्यत्वं परिकरमात्रकं तदस्य यदुत्तरत्र विशेषः । तत्रेदं मन्त्रतन्त्रम् । एतावन्मात्रकमेवासीत्, द्विकमेवैतदासी (त्) । विनयवशादस्य अपरस्यात्रविधेः व्यवस्था - [न] - मित्यस्यार्थस्य ख्यापनार्थं अस्योपनिबन्धः । एवं सप्रयोजनः पुराकल्प उपदर्शितः ॥
8
1
7
वर्तमानकल्प इदानी [ मुच्यते ] - ( ३ ) निश्रितस्य कंचिद्भिक्षं तत्रोपाध्यायतया प्रव्रज्योपसंपदौ । कंचिद्भिक्षुमिति । नावश्यं, यन्निश्रित्य प्रव्रज्या तमेवोपसंपदिति प्रदर्शनार्थं कंचित् इति वचनम् । 'कथं निश्रित्य' आह उपाध्यायतया । 'किमर्थं निश्रितस्य' इत्याह तत्र इति । प्रव्रज्योपसंपदपेक्षं । निमित्तसप्तमी चैषा । प्रव्रज्योपसंपन्निमित्तं उपाध्यायत्वेन कंचिद्भिक्षं निश्रितस्य प्रव्रज्योपसंपदा भवतः, न यथा पुराकल्पे कंचिदनिश्रितस्यैवेति । प्रव्रज्या पुनरत्र यत्तस्यां अर्हवृत्तं श्रामणेरसंवरः, तेनानुरक्ता वेदितव्याः । प्र[व] ज्या श्रामणेरसंवरश्च उभयमप्येनं निश्रितस्य । विशेषः पुनरत्र उपाध्यायादेव प्रव्रज्या, संवरः पुनरन्यत इति । निश्रितस्य निश्रयपरिग्रहे विधिमाह - ( ४ ) पृष्ट्वा प्रान्तरायिकं परिशुद्धाय पूर्वो [पाध्यायत्वेना Plate I 3a' - का]शं कुर्यात् । प्रव्रज्याया मदान्तरायकरं मातृवधादि तदान्तरायिकमंत्र अभिप्रेतम् । अतोऽसौ निश्रयः प्रव्रज्यापेक्षमान्तराषिकं पृष्ट्वा, न सन्ति चेत् अस्य ते धर्माः