Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 51
________________ विनयसूत्रवृत्यभिधानस्वव्याख्यानम् संघ प्रवारयामीति शुद्धौ सत्यां उत्सर्गदानस्य युज्यमानता इत्यतोऽनन्तरं प्रवारणावस्तु ॥ व्यूहबन्धः कश्चिदस्य वर्षावासात्मनो [नियतवास-[Plate I 2 a] 'स्य प्रति-कञ्चुकभूतः विद्यते। प्रस्रब्धिविहारितार्थं अवलम्बनीयः। अस्य अनन्तरं तस्य क्रमः इति कठिनवस्तु निवेशितम् ॥ पृथक्तत्र नापत्तौ चीवरविभागस्य योगः इति अपगतत्त्वेन तयोः व्यूहबन्धयोः चीवरदानस्य काल: इति चीवरविधेः आश्रयणम् ।। चीवरप्रभेदभूतं ज्ञानं चर्म इत्यतोनन्तरं चर्मवस्तु [निवेशितम्] ॥ न विना रोगप्रतीकारेण एक (:) पृथग्वा विहर्तुं शक्यत इ[ति सहप्रत्या] सन्नाभ्यां पूर्वापरकालाभ्यां प्रथ(म)मेव चीवरदानकाले प्रायशो ग्लान्या पातस्य भावः । तद्गतोऽस्मात् प्रतिक्रियाविधियुक्त रूप1 इति भैषज्यवस्तु ॥ उत्पन्नोत्पन्नेषु एवं विहरतां करणीयेषु अनुष्ठानविधिः, इत्यतोनन्तरं कर्मवस्तु ॥ उवृत्तानां प्रणिधिकाऱ्यादीनां प्रणिधिकर्मकरणादिना नियमनं प्रत्यापादनं च अवसारणादिना युक्तमित्यतः प्रतिक्रियावस्तु ॥ आपन्नसंघावशेषस्य च कालाकालसंपात-भूम्यन्तरस्थचरणवस्तुनोः नियमनप्रत्यापादनार्थं संनिवेशनम् ॥ कौशाम्बक-पाण्डुलोहितक-पुद्गलपरिवासिकवस्तूनि प्रतिक्रियावस्त्वादिनामभिः उक्तानि। संज्ञान्तरनिवेशनप्रयोजनं तत्रैव क्रमे वक्ष्यामः ॥ नियमनादौ अनुपतिष्ठतां परिदमनं युक्तरूपमित्यतः परिकर्मवस्तु ॥ [पोषध] "स्थापनवस्तुनः एतत्संज्ञान्तरं वक्ष्यमाणार्थ द्वैधगतेषु वृत्तमित्येतत्कर्मचक्रभेदवस्तुनी ॥ व्यवहारगतो विधिः अतोऽनन्तरं युज्यते। इत्यस्मादधिकरणवस्तु ॥ यत्रैतद् सर्व अन्यश्च कुशलपक्षोअनुष्ठीयते स्थाने, तद्गतोऽस्माद्विधिः युक्त इति शयनासनवस्तु निवेशितम् ॥ क्षुद्रकादीनां चैतद्-प्रभेदभूतत्वात् अनतिरेक एभ्यः' इति न पृथक्सूत्रणम् ॥ यत्र यस्य योगः ततस्तत्रैव निवेशितम् ॥ आचार्योपाध्यायानुज्ञानात् [अनन्तरं14] यः प्रव्रज्योपनयविधिः तदुपदर्शनार्थमाह-(२) सर्वस्मिन् सन्निपतिते संघे कृतेदंवेषं निपत्य प्रगृहीताञ्जलि उत्कुटुकस्थं वृद्धान्ते याचितवन्तं त्रिप्तिचतुर्थेन कर्मणा सह प्रवज्योपसंपदौ उपनयेयुः इति पुरा-कल्पः ॥ मण्डलके संधैकदेशसन्निपातप्रतिषेधार्थं सर्वस्मिन् इति वचनम् ॥ न मण्डलकस्थेऽपि संधै (क)देशे, किंतहि तदन्तःसीमानिवासिनि सर्वस्मिन् ।। कृतोऽयं वेषोऽनेन इति कृतेवेषः॥ प्रयमिति बुद्धशासनभिक्षुवेषापदेशः। अपनीतकेशश्मशृं भिक्षवेषं च प्रावृतत्रिचीवरं इत्यर्थः । निपत्य इति वृद्धान्त इति यद्वक्ष्यते, तस्य चाभिसंबन्धः । वृद्धान्ते निपत्य पञ्चमण्डलकेन14 वन्दनां कृत्वा इत्यर्थः ॥ प्रगहोताञ्जलिमिति कृताञ्जलिम् ॥ उत्कुटुकस्थमिति उत्कुटुकिकयाऽवस्थितम् । नासनोपविष्टम् ॥ क्वावस्थितमित्याह वृद्धान्ते ॥ ननु]15 निषण्णस्य उत्कुटुकिकया वृद्धान्ते प्रगृहीताञ्जलित्वं इत्येतत्संघाधीने कर्मणि-परिभाषायां सर्वकर्माधिकारिक सूत्रितम् । तत एव इहापि कर्मत्वात् अस्य त्रितयस्य प्राप्तौ [Plate I 2 b]' सत्यां

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134