Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
६
विनयसूत्रवृत्त्यभिधानस्वव्याख्यानम्
ततः परिशुद्धायास्मै पूर्वोपाध्यायत्वेन श्रामणेरोपाध्यायत्वेन अवकाशं कुर्यात् – 'अहं भदन्तं प्रव्राजयामि' इति । तथा च ग्रन्थः - " यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति, स तेनान्तरायिकान् धर्मान् पृष्ट उद्गृहीतव्य" इति । संवराणां आनुपूर्व्यं दर्शयन्नाह(५) नानुपपन्नस्य पूर्वं उपासकत्व - श्रामणेरत्व- भिक्षुत्वानामुत्तरम् । एषामुपासकत्वादीनां पूर्वं पूर्वं पर्वानुपपन्नस्य तादात्म्योपगत्या अनुपगतस्य उत्तरं उत्तरं पर्व न कार्यम्। व्यवस्थाख्यानमेतद् ॥ पृष्ट्वा आन्तरायिकान् प्रव्रज्यापेक्षं आदावुपासकत्वं ग्राहयेत्, ततः श्रामणेरत्वं, ततो र भिक्षुत्वं भवति इत्यस्य बोधनार्थं । न त्वेतदर्थं पूर्वस्मिन्नसमात्ते न भवत्युत्तरस्य रूढिरिति ॥ भिक्षुसंवरस्य पूर्वं संवरान्तरेणापि रूढी मुख्यमस्त्येव [ मूल ] 21 वचनम् । श्रामणेर संवरस्तु उपासकसंवरं विभवति इति 22 रूढिः । भिक्षुसंवरः प्रतिशरणं न त्वस्ति [इति] वचनम् । शरणगमनपूर्वकं संवरादानमिति दर्शयन्नाह - ( ६ ) शर [ण ] गत्यभ्युपग-४ [मवच ] नोपक्रमं उपासकत्व - श्रामणेरत्वाभ्युपगमवचनं कुर्वीत ॥ गतिर्गमनम् । शरणगमनस्याभ्युपगमः शरणगत्यभ्युपगमः— बुद्धं शरणं गच्छामीत्यादि । तदभिधायकं वचनं शरणगत्यभ्युपगमवचनम्, तद्वचनम् । उपक्रम आरम्भः । उपासकस्व- श्रामणेरत्वाभ्युपगमवचनं कुर्वीत । कोऽसौ ? प्रतिपत्ता, अयमर्थः । एवं समादात्रा वक्तव्यम् - " समन्वाहर भदन्त अहं एवं-नामा बुद्ध शरणं गच्छामि यावत् गणानामग्र्यम्, उपासकं मां भदन्तो धारयतु यावज्जीवम्, * समन्वाहर भदन्त अहमेवं-नामा बुद्धं यावत् गणानामग्र्यं, २३ श्रामणेरं मां आचार्यो धारयतु ॥" एवं भूतावेव संदर्भों त्रिः आवर्तयितव्यौ | ये [न] तु के [न]चिच्छरणगमनं आदौ त्रिवर्त्य ततः पश्चादुपासकं मां भदन्तो धारयतु, श्रामणेरं मामाचार्य इत्यभिधीयते, सोऽसौ वेदयितव्यः ॥ - यस्मादनयोः संवरसमादानवचसो:, एवं सति, शरणगमनोक्तिः नैव अङ्गभावं प्रतिपद्यते । किञ्च येन प्रागेव शरणगमनमात्रं [अभ्युपगम्यते ] 24 तस्य संवरादानकाले शरणगमनस्यावचनीयतापत्तिः ॥ अवश्यं चैतद् निर्वाणाशयप्ररूपणार्थं अस्मिन्काले वक्तव्यम् । एवं ह्येतद् संवरसमादानवचसो: अङ्ग भूतं भवति नान्यथा । न च निर्वाणाशय-दाढ्यंमन्तरेण संवरस्योत्थानम् ॥ यस्मात् निर्वाणानुगुण्यः संवरः, उपसंपदस्तर्हि शरणगमनवचनमन्तरेण कथं रूढिः ? नैष दोषः । उपसंपच्छब्दादेव तदर्थसिद्धेः । सर्वाकरणीयविरतिलक्षणत्वात्, सर्वात्मना हि निर्वाणोपगतिः उपसंपद् । यतः उपसंपदि [ Plate I 3 b]' स्थितः निर्वाणानुगुण्यो व्यवस्थितो भवति ॥ कुर्वीत इत्यात्मनेपदं प्रतिपत्त्या एतत् करणीयं इत्येतत्संदर्शनार्थम् । यदत्रपरोऽभित्ते शिक्षणं तदिति मन्तव्यं, न दानग्रहणम् । उपोषधेऽपि प्रतिपत्तुरेवैतत्करणीयं इति मन्तव्यम् । यत्ते दानग्रहणधर्मः तत्र इति केचिद् वर्णयन्ति शिक्षणादेव । भ्रान्तिरसौ तेषामिति ज्ञेयम्, तुल्यत्वात्समादानस्य ॥ ( ७ ) श्रनन्तरमस्य शिक्षोत्कीर्त्तनं '
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134