Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 521
________________ उपदेशमालाविशेषवृत्तौ ॥ ४७९ ॥ सनोपवेशादिबाह्यस्फुटाटोपरूपा । "उक्कोडालं च (वा) वञ्चना वक्रत्रतधारणेन परविप्रतारणा । कपटं प्रागुक्तमेव । एतानि धर्मस्य साधनानीति शेषः । कुत एतदित्याह - 'निच्छम्मो' इत्यादि यत उक्तं- ' सुद्धस्स होइ चरणं, मायासहिए उ चरणभेउ ' त्ति ॥ ३९४ ॥ गतमानुषङ्गिकं संप्रत्यायव्ययतुलना यान्यधिकृत्य कर्त्तव्या तान्याह - " भिक्खू " गाहा । भिक्षुर्द्विविधो-गीतार्थश्वागीतार्थश्च अभि षेक उपाध्यायः । रात्निक - आचार्यः । चेवशब्दादनुक्तस्थविरादिपरिग्रहः । ' एवं तु पुरिसवत्युं ' ति एतदेवं रूपं पुरुषा एव ज्ञानादिगुणवसनयोगाद्वस्तु पुरुषवस्तु आयव्ययतुलनाया गोचरो भवतीति गम्यते । ' दव्वाइ' त्ति द्रव्यक्षेत्रकालभावरूपतया च चतुर्विधं पुरुषवस्तुनः शेषमन्यच्च तस्यागोचरो भवति ।। अयं भावार्थ:- एतानि तुलयित्वा यद्बहुलाभं तद्विधेयमन्यथा त्वतिचारः स्यात् ॥ ३९५ ॥ स चातिचारो ज्ञानदर्शनचारित्रेषु स्यात्तत्र चारित्रस्य मोक्षं प्रत्यन्तरङ्गकारणत्वात्तस्यातिचारांस्तावदाह चरणइयारो दुविहो, मूलगुणे चैव उत्तरगुणे य । मूलगुणे छट्टाणा, पढमो पुण नवविहो तत्थ ॥ ३९६ ॥ सेसुकोसो मज्झिम जहन्नओ वा भवे चउद्धा उ । उत्तरगुणणेगविहो, दंसणनाणेसु अट्ठट्ठ ॥ ३९७ ॥ जं जयइ अगीयत्थो, जं च अगीयत्थनिस्सिओ जयइ । वट्टावेइ य गच्छं, अनंतसंसारिओ होइ ॥ ३९८ ॥ कह उ जयंतो साहू, वट्टावेई य जो उ गच्छं तु । संजमजुत्तो होउं, अनंतसंसारिओ होइ ? ॥ ३९९ ॥ चारित्रातिचारो द्विविधो मूलगुणविषय उत्तरगुणविषयश्च । तत्र मूलगुणेषु षट् स्थानानि पञ्च महाव्रतानि रात्रिभोजनविरतिव्रतषष्ठानि । तेष्वपि प्रथमः प्राणातिपातगोचरो नवभेदो-पृथ्व्यप्तेजोवायुत्रनस्पतिद्वीन्द्रिय-त्रोन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियरक्षणविषयत्वात् ॥ ३९६ ॥ “ सेसुकोसो " गाहा । शेषो मृषावादादिषु पञ्चसु उत्कृष्टो मध्यमो जघन्यश्चेति त्रिविधो भवति । ' वा भवे चउद्धा ' त्ति चतुर्द्धा वा द्रव्यादिभेदाद् भवेत् । उत्तरगुणविषयोऽतिचारोऽनेकविधो भवति पिण्डविशुद्धयादिगोचरत्वात्तेषां वाऽनेकरू१' उक्कोड ' त्ति उत्कोचा, यदि मह्यमेतद्देहि ततोऽहमिदं करोमित्यादिलक्षणा, इति सिद्धवृत्तौ । ज्ञानादिषु अतिचाराः । ।। ४७९ ।।

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574