Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५०५ ॥
तद्वाहनहस्तीत्यनेन सूचितम् । तच ' थेवेण वि सप्पुरिसा' इत्यत्र कथितमेव । तथा " रयणुज्जलाई " गाहा ॥ किंच " सुरवइ गाहा । एतत्कथानकमपि किं 'परजणबहुजाणावणाहिं धम्मो मएण हुंतो ' ॥ ' अइसुट्ठिओ' त्ति इत्यत्र यथायोगं भणितमेव ॥ तदिदमवेत्य यद्विधेयं तदेवाह – “लद्धूण" गाहा । आत्महितं संयमानुष्ठानादि । अहितेषु प्रमादकषायादिषु || तथाकुर्वन्निहलोक एव यादृग्भवति तदाह - " हिय " गाहा । गण्यो - गणनीयः । सर्वकार्येषु सर्वस्य प्रष्टव्यः । विप्पभूओ' त्ति-विगतः प्रत्ययो यस्मात्स विप्रत्ययोऽविश्वसनीय इत्यर्थः ॥ ४८ तः ५४ ॥ ननु यो योग्यः कोऽपि स एव गुरुः स्यादहं तु नायोग्य इति यो मन्येत तं प्रत्याहजो नियमसीतवसंजमेहिं जुत्तो करे अप्वहियं । सो देवयं व पुज्जो, सीसे सिद्धत्थओ व्व जणे ॥ ४५५ ॥ सव्वो गुणेहिं गण्णो, गुणाहिअस्स जह लोगवीरस्स । संभंतमउड विडवो सहस्सनयणो स्ययमेइ ॥ ४५६ ॥ चोरिक चणाकूड कवडपरदारदारुणमइस्स । तस्स च्चिय तं अहियं पुणोऽवि वेरं जणो वह ।। ५५७ ।। जता तणकं चणलुहरयणसरिसोवमो जणो जाओ । तइया नणु बुच्छिन्नो, अहिलासो दव्वहरणम्मि ।। ४५८ ।। आजीवगगणनेया, रज्जसिरिं पयहिऊण य जमाली । हियमप्पणी करितो, नय वयणिज्जे इह पडतो ॥ ४५९ ॥
अयमर्थः – यः कश्चिदात्महितं करोति स दैवतमिव पूज्यो भवति शीर्षे कृतब्ध सिद्धार्थक इव-सर्षपवदुह्यत इति शेषः । अयमभिप्रायः— न हि गुरुपदोचितानां काचित्खानिरस्ति, किं तर्हि ? गुणाः पूज्यत्वहेतवस्ते च सर्वस्य स्वप्रयत्नसाध्यास्ततः सर्वेण तेष्वाद विधेयः । यदुक्तम्-न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् । तथा - गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य, इति जीवन् सहेत कः ॥ एतदेव भावयति - “ सव्वो ” गाहा । संभ्रान्तमुकुटविटपः - भक्त्यातिशयाकुलकिरीटशाखः निगीर्याध्यवसानाद्विटपशब्देन किरीटस्य शिखराण्युच्यन्ते ॥
"
एति '-वन्दनायेति शेषः ॥ ४५६ ॥ गुणहीनस्य तु व्यतिरेकमाह - " चोरिक्क " गाहा । ' चोरिक्कं ' - चोर्यम् । ' वचना '
हितोपदेश श्रवणफलम् ।
।। ५०५ ॥

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574