Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमाला विशेषवृत्तौ
ग्रन्थकर्तुरभिधेयान्तर्गतगाथा ।
॥
२७॥
धंत-मणि-दाम-ससि-य-णिहिपयपढमक्खराभिहाणेणं । उवएसमालपगरणमिणमो रइअं हिअट्ठाए ॥ ५३७॥ जिणवयणकप्परुक्खो, अणेगसुत्तत्थसाळविच्छिन्नो । तवनियमकुसुमगुच्छो, सुग्गइफलबंधणो जयइ ॥५३८ ॥ जुग्गा सुसाहुवेरग्गिआण परलोगपत्थिआणं च । संविग्गपक्खिआणं, दायव्वा बहुसुआणं च ॥ ५३९ ॥
तत्र धन्तादेः पदषट्कस्य प्रथमाक्षरैर्धर्मदासगणिरित्यभिधानं नाम यस्य तेनेदमुपदेशमालाप्रकरणं रचितमिति सम्बन्धः। किमर्थ| हितार्थाय हितं-निःश्रेयसं सत्त्वानुग्रहो वा तदर्थमिति । अपरः पुनरयमर्थः-' ध्मातः'-कलंकशोधनार्थ पुटपाकं प्रापितास्ते च ते | 'मणय'च-पुष्पराग-पद्मराग-वन-वैडूर्य-चन्द्रकान्तादयो ध्मातमणयस्तेषां ‘दामानि '-मालाः । 'शशिनो' दुर्वर्णसुवर्णकर्पूराः । 'गजाः'-कुञ्जरास्तुरगरथपदातीनामुपलक्षणमेतत् । 'निधयो'-निखातद्रव्याणि तेषां 'पद'मास्पद-स्थानं, राजा स चेह प्रस्तावाद्रणसिंहस्तस्य प्रथमाक्षराभिधानेन, कोऽर्थः। प्रथममक्षरमोंकारो मातृकाया इव सर्वशास्त्राणामादौ मङ्गलार्थमुपादीयमानत्वात्तस्य च पञ्चपरमेष्ठिवाचकतया विश्रुतत्वात् । अभिधानमन्तर्जल्पो जाप इत्यर्थस्तेन हेतुना रचितमुपदेशमालाप्रकरणमेतदिति योगः।। कलिच्छलितो ह्यसावेतयोपदेशपरम्परया प्रतिबोधितो यथेह परलोककल्याणकारणपञ्चमङ्गलजापपरायणो भवति तथा करोमीत्यभिप्रायेणेत्यर्थः । अत एवोक्तं हितार्थाय एतद्धितस्य पथ्यं यदेवंविधमन्त्रराजजापपरायणो भवति । तथाहि-“सिद्धान्तस्य रहस्यमेकमिह यः पाथेयमामुष्मिकम् , सम्यक् पूर्वविदामपि प्रतनुते दुस्साधसिद्धिर्धवम् । सर्वत्रापि च सर्वदा च शुचिर्यस्यायमेव क्रमः, सोऽयं पञ्चनमस्क्रियेति जयति श्रीमन्त्रराजः क्षितौ ॥ छ ।। ३७ । साम्प्रतमन्त्यमङ्गलं जिनप्रवचनस्तवनरूपं कल्पवृक्षरूपकेणाह-" जिणवयण" गाहाजिनवचनमेव कल्पवृक्षः सकलार्थिसार्थमनोरथप्रथापूरकत्वाज्जिनवचनकल्पवृक्षः स जयतीति सम्बन्धः ।। अङ्गिनोऽनुगुणामङ्गरूपणा(ता)माह-अनेकेऽनन्ता ये सूत्राणामस्ति एव शाखास्ताभिर्विस्तीणों विशालः । उक्तं चागमे-“सव्वनईणं जा होज्ज वालुया, सव्वउदहिजं उदयं । एत्तो अणंतगुणिओ, अत्थो एक्कस्स सुत्तस्स ॥” यद्वाऽनन्तत्वं सूत्रस्यापि सम्बध्यते, अनन्तगमत्वादागमसूत्राणाम् ।
गजातस्य प्रथमा विभुतत्वातत्वचित
Demememewoemocrperoecome
॥ ५२७॥

Page Navigation
1 ... 567 568 569 570 571 572 573 574