Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्ती
॥५२८॥
तपास्यनशनादीनि, नियमा-द्रव्यक्षेत्रकालभावाभिग्रहास्तपोनियमास्त एव कुसुमानां गुच्छाः-स्तबका यस्मिन् स तपोनियमकुसुमगुच्छः।
केषामियं सुगतिः-स्वर्गापवर्गों तावेवानन्यसामान्यसुखरसपूर्णत्वात्फलं तद्बध्नाति-करोति यः स सुगतिफलबन्धनो जयति-सकलागमोत्कर्षण
दातव्या । वर्त्तते । तदुक्तम्-"जह तरुसु कप्परुक्खो, मणीसु चिंतामणी अइमहग्यो । तह इयरसयलधम्माण, मज्झयारंमि जिणधम्मो" ॥१॥३८॥ साम्प्रतं येषामिदं योग्यं तानभिधित्सुराह-"जुग्गा" गाहा वैराग्येण चरन्तीति वैराग्यिकास्ते श्रावका अपि स्युस्तद्वयवच्छेदाय विशिनष्टि, सुसाधुत्वेन वैराग्यिकाः संविग्नाः-सद्यतयस्तेषां योग्या पठितुं-श्रोतुं व्याख्यातुं चोपदेशमालेयम् । परलोकोपस्थायिधर्ममार्गे प्रस्थिताः प्रस्थानं कृतवन्तो यतिधर्माभिलाषुका अद्यापि गृहवासं मोक्तुमशक्ताः सुश्रावकास्तेषां च योग्याः। तथा संविग्नपाक्षिकाः प्रागुक्तलक्षणास्ते हि तत्र मार्गे गच्छन्तोऽपि श्रान्ताः शरीरप्रवृत्त्या, चित्तवृत्त्या तु तत्र प्रतिबद्धा गच्छतोऽन्यान् बहुमन्यमानाश्च तेषां च योग्या ततो दातव्येव ।। सर्वेषां किं विशिष्टानां बहुश्रुतानां स्वस्वोचितबहुश्रुतशालिनामित्यर्थः ।। ५३९ ॥ उपदेशसमाप्तौ च वयमपीदं पूज्यसूक्तेन श्रूमः-एसो धम्मोवएसो निबिडतमभरुत्तारतारप्पईवो, एसो धम्मोवएसो मयमयणमहावाहिनासोसही य। एसो | धम्मोवएसो सिवसुहभवणारोहसोवाणसेणी, एसो धम्मोवएसो भवियजण तओ ता(ना)वणिज्जो मणाओ ॥ इतम्चतस्रः प्रक्षेपगाथा व्याख्यायन्ते-तत्र आद्यां तावत् बालाबालदीनामपि प्रकरणकर्तृनामावधिगमायाहइय धम्मदासगणिणा, जिणवयणुवएसकजमालाए । मालव्य विविहकुसुमा, कहिा य सुसीसबग्गस्म ॥ ५४० ॥ संतिकरी वुढिकरी, कल्लाणकरी सुमंगलकरी य । होइ कहगस्स परिसाए, तह य निव्वाणफलदाई ॥ ५४१ ॥ इत्थ समप्पड़ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सब्वाणं, पंचसया चेव चालीसा ॥ ५४२ ॥ जाव य लवणसमुद्दो, जाव य नक्खत्तमंडिओ मेरू । तावय रइआ माला, जयम्मि थिरथावरा होउ ॥ ५४३ ॥ INI इत्येषा प्रकृतोपदेशमाला धर्मदासगणिमहर्षिणा कथिता शिष्यवर्गस्येति सम्बन्धः । किं स्वातन्त्र्येण ? नेत्याह-जिनवचनोपदे
DEPERPETrekseenenewseem
॥५२८॥

Page Navigation
1 ... 568 569 570 571 572 573 574