Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 568
________________ उपदेशमालाविशेषवृत्तौ ॥५२६॥ च्छति-सद्बोधं जनयतीदं प्रकरणं सम्यक् । व्यतिरेकमाह-कर्मपङ्कदिग्धानां त्वरे भण्यमानमपि पार्श्वतो याति, नान्तःप्रविशत्युपरि रणसिंह प्लवत इत्यर्थः ॥ ३५ ॥ अधुनाऽस्यैव प्रकरणस्य पाठादिफलमाह-“ उवएस" गाहा उपदेशमालामेतामनन्तरोक्तां यो धन्यः पठति RTA निदर्शनम् । सूत्रतःशृणोत्यर्थतः करोति च हृदये प्रतिक्षणमेतदर्थं भावयतीत्यर्थः । स जानात्यात्महितमिहलोकपरलोकयोः स्वपथ्यं ज्ञात्वा च सुख| मकृच्छ्रेणैव समाचरत्यात्महितमेव ।। अत्रार्थे रणसिंहमहाराज एव निदर्शनम् ।। किलैतस्य विजयाक्षत्रियाकुक्षिराजीवराजहंसस्य जातमात्रस्यैवानमहिष्याऽजयामिधानया छद्मना प्रच्छन्नमरण्ये परित्याजितस्य कतिपयवत्सरान्ते यथाववृत्तान्तं विदित्वा संजातात्यन्तवैराग्यः श्रीविजयसेनमहाराजो विजया-तभ्रातृसुजयाभ्यां सार्द्ध जगदेकालङ्कारकारुण्याकूपारपरमेश्वरश्रीमहावीरपद्महस्तेन प्रव्रज्यामहोत्सवं स्वीचक्रे । ततोऽधिगतैकादशाङ्गश्रुतसंपन्निशिततरतरवारिधाराकरालातिविशालतपोऽनुष्ठाननिष्ठावाप्तधर्मदासगणिनामधेयोऽवधिज्ञानी स्वहस्तदीक्षिततीर्थकरान्तेवासित्वेनाध्ययनप्रबन्धविधित्सुरवधिना स्वपुत्रस्य प्राप्तस्वकीयराज्यस्य भाविनी कलिच्छलनामालोकयन् प्रतिबोधविधानाय यथार्थमेतदुपदेशमालाप्रकरणमुत्पादयाश्चकार । पाठयां चकार च । पुत्रप्रतिबोधसंविधाय तन्मातुलकमवोचच्च यथासमये समेत्य कलिच्छलितः स्वस्वस्त्रो(प्रो)यस्त्वया प्रतिबोधनीय इति । एवं च कतिचित्संवत्सरान्ते त्रिदशेश्वरातिथेयी प्रतीष्टवति महामुनौ शोभनावसरे सुजयसाधुर्विजयागणिनीसमन्वितः समाजगाम राजरणसिंहस्य रहस्याख्यानाय विजयपुरपरिसरारामवसुन्धरायाम् । सोऽपि विदितवृत्तान्तः समेत्याभिवन्द्य च मातुलं मातरं चाप्रतिमप्रमोदपल्लवितचित्तधृ(वृ)त्तिः पुरस्तादुपविश्योपदेशपरं परंपरामश्रौषीत् । समये श्रीविजयसेनमहामुनिवृत्तान्तविस्तारपूर्व सुजययतिवरस्तमुपदेशमालामिमां श्रावयामास । सोऽपि सादरं सकृच्छ्वणेऽप्यकरोत्कण्ठप्रतिष्ठितां तां मीमांसामास समासतोऽपि तस्यास्तात्पर्यम् । ततः प्रभृति प्रतिक्षणमन्तःकरणे कृत्वा परिभावयाम्बभूव विशेषेण । ततोऽप्यात्महितं ज्ञात्वा प्रस्तावे व्रतप्रतिपत्या तत्प्रास्तावीदिति वृद्धानामुपदेशः ।। ५३६ ।। साम्प्रतं सूत्रकारः स्वाभिधानं व्युत्पत्त्या प्रकटयन् तेरेव शब्दः स्वपुत्रस्य रणसिंहस्य मुख्यवृत्त्योपकारार्थं कृतमेतत्प्रकर 3 ॥५२६॥ णमिति ज्ञापयन्नाह यथार्थमेततुपात)यस्त्वया मान्यतः म DePERRORRECTCORRECCAREER

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574