Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 571
________________ उपदेशमालाविशेषवृत्तौ आशीर्वाद ग्रन्थप्रमाणम् । ॥ ५२९॥ accamerecapeareCReckveerat श्यानां कार्याणां या माला तस्याः सम्बन्धित्वेन तस्या वा सकाशात् । अत्रोपमानं मालेव विविधकुसुमा । यथा ह्येषा सौरभादिगुणग्रामाभिरामतया सर्वेषामुपादेया एवमुपदेशमाला ऽपीति ॥ ४०॥ द्वितीया त्वाशीर्वादायेयं गाथा-“संतिकरी" इत्यादि ।। उपस्थितदुरितोपशान्तिकारिणी धर्मसाधनसामग्र्या वृद्धिकारिणी ऐहलौकिकसकलकल्याणकारिणी पारलौकिकसकलसन्मङ्गलकारिणी च । क्रमेण-परम्परया निर्वाणफलदायिनी च भवतु, कस्येत्याह-कथकस्य-सूत्राध्यापकस्य च्याख्यातुश्च ॥ ५४१॥ तृतीया समाप्त्याभिधानपूर्वकं ग्रन्थसंख्यानाय-" एत्थ" गाहा । अत्र जिनशासने समाप्यते-समर्थ्यते एतत् । मालया-परम्परया उपदेशा मालोपदेशास्तेषां प्रकरणमुपदेशमालाप्रकरणमित्यर्थः ॥ ४२ ॥ द्विचत्वारिंशदधिकानि गाथानां पञ्चशतानि (५४२) ग्रन्थमानम् । चतुर्थी तु श्रतज्ञानस्याशीर्वादाय-" जावय" गाहा । यावल्लवणसमुद्रोऽयं वेलाभिः पोप्लूयते । यावच्च नक्षत्रैरन्तर्वर्तिभिर्मण्डितो मेरुः प्रभासते । यावच्चैतौ चन्द्रादित्यौ द्योतेते तावदिदं श्रुतज्ञानमुपदेशमालाख्यं सकलं वा श्रुतज्ञानं भवत्वित्याशिषि पञ्चमी भवतादस्खलितं नन्दतादित्यर्थः ॥ ४३ ॥ समुद्रादीनां प्लवनादयश्चात्र क्रियाः प्रसिद्धरेव लभ्यन्ते ॥ यथा मा भवन्तमनलः पवनो वा वारणो मदकलः कलभो वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह ।। वृक्षेत्यत्राधाक्षीद्भाङ्क्षीदित्यादि क्रियाणामनुपात्तानामध्यवगमः । एवं प्रस्तुतेऽपि तत्तक्रियासिद्धिः ॥ ५४३ ।। म सकलं वा श्रुतज्ञालाच नक्षत्रैरन वनमिन्द्रकरविप्रनादयश्चात्र क्रियाः ॥ इतिश्रीरत्नप्रभसूरिविरचितायामुपदेशमालाविशेषवृत्तौ चतुर्थों विश्रामः॥ D प्रती समाप्त इति भद्रं ॥ शुभमस्तु ॥ विक्रमाद्वसुलोकार्क वर्षे माधे समर्थिता । एकादश सहस्राणि मान साधशत तथा । अंकतोऽपि ग्रंथाग्रं १११५० तथा सूत्रगाथा ५४३ । एवं संपादिकायां ग्रंथाग्रं ६७९ एवं ग्रंथाग्रं ११८२९ ॥छ। संवत १५८६ वर्षे पोष वदि १३ दिने उपदेशमालावृत्ति लिखिता ॥ B प्रतौ साई द्वी श्लोकाः प्रशस्तिः चास्ति १ प्रतौ प्रशस्तिः नास्ति । INI ||५२९॥

Loading...

Page Navigation
1 ... 569 570 571 572 573 574