Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 565
________________ उपदेशमालाविशेषवृत्तौ ॥ ५२३ ॥ “ अञ्चरत्तो " गाहा । यः पुनर्लिङ्गधारणेऽत्यन्तानुरक्ते मनाक् सशुकच्च गुणदोषकथनेन बहुशो गीतार्थैः प्रज्ञाप्यमानोऽपि न मुवति द्रव्यलिङ्गं स संविग्नपाक्षिकत्वमनन्तरोक्तलक्षणं कुर्यादित्युपदेशः । यतोऽसौ तेन क्रियमाणेन लप्स्यते पथं ज्ञानादिमोक्षमार्गमिति । सा तर्हि संविग्नता क्वोपयुज्यत इत्याह – “ कंतार " गाहा । कान्तारं महारण्यं रोधेन नगरादौ परचक्राकान्तिः । अध्वानमार्गः। अवमं-दुर्भिक्षम् । ग्लानत्वं ज्वरादिमान्द्यम् तदादिकार्येषूपस्थितेषु सर्वादरेणागमोक्तयतनया यथा तेषां चित्तोपरोधो न भवति तथा संविग्नपाक्षिकः साधूनां यत्करणीयं प्रयोजनं करोति, साधवोऽपि प्रतीच्छन्ति, न पुनः प्रार्श्वस्थादीनामिव न प्रती च्छन्ति । एतच्चातिदुष्करमत एवासौ प्रशस्यतयोक्तो यत आह - " आयर " गाहा । आदरतरेण - सातिशयप्रयत्नेन सन्मानः सुसाधूनामभ्यर्चनं यस्मिन् संविग्नपाक्षिकत्वे तदादरतरसन्मानं सुदुष्करं दुरनुष्ठेयम् । मानसंकटे - गर्वेण तुच्छे लोके स्वाभिमानप्रस्तप्राणिगणमध्ये दुःशकं कर्त्तुमिति भावः । संविग्नपाक्षिकत्वमवसन्नन-शिथिलेन स्फुटं लोकप्रकाशं निर्व्याजं वा कर्त्तुं दुष्करमिति सम्बन्धः ॥ अथ ये सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमवलम्बन्ते तांश्च प्रमाणीकृत्यापरे प्रमादे वर्त्तमाना गीतार्थः सूत्रसंदर्शनेनानुयुक्ता यदि ब्रूयुर्यदुत किं कुम, वयमस्मत्तो बृहत्तरैरप्यतदाचरितं तान्प्रतीदमुच्यते ।। " सारण" गाहा । ग्रन्थानं ११००० स्मारणस्योपलक्षणत्वात् स्मारणवारणचोदनादिभिस्त्याजिता निर्वेदिताः सन्तो ये गच्छान्निर्गताः प्रविहरन्ति यथेष्टचेष्टया विचरन्ति ते प्रमाणं नैव कर्त्तव्या इति सम्बन्धः, सुसाधुतया नैव दृष्टव्या इत्यर्थः । अप्रेतनस्यापि तुशब्दस्यात्र सम्बन्धादपि तु पार्श्वस्थास्ते यतो जिनवचनबाह्या इतिहेतुद्वारेण विशेषणम् । अयमर्थः - ये जिनवचनबाह्यतया चिरादपि पार्श्वस्था जातास्ते चारित्राचरणे प्रमाणं विदुषा न क्वचिदपि कार्याः, सूत्रमेव प्रमाणयितव्यम् । अन्यथाऽर्थापत्त्या भगवतोऽप्रमाणता आपद्येत । तथा चावाचि श्रीहरिभद्रसूरिभिः— सुयबज्झायरणरया पमाणयंता तहाविहं लोयं । भुवणगुरुणो वराया, पमाणयं नावगच्छति ॥ १ ॥ सुत्तेण चोइओ जो, अन्नं उद्दि सिय तं न पडिवज्जे । सो तंतवायबज्झो, न होइ धम्मंमि अहिगारी ॥ २ ॥ इत्यादि तस्मादागमपरतन्त्रतेव लोकाचरितनिरपेक्षाऽपरलोकाङ्गं तस्यां च सत्यां शक्त्यनुरूपं यदेवानुष्ठीयते तदेव निर्जराकारीति ॥ ५२५ || अमुमेवार्थमाह - " हीणस्स वि" गाहा | जिनवचन बाह्या न प्रमाणयि तव्याः । ॥ ५२३ ॥

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574