Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ ॥५२१॥
संविग्नपाक्षिकलक्षणम् ।
peerdeepercreezeemerc0
स्यान्तस्तत्त्वनिरूपणाभिप्रायस्येदं दर्शनं, यदुत चरणस्योपघाते सति ज्ञानदर्शनवधोऽपि जायत एव, तयोस्तत्साधकत्वेनैव पारमार्थिक स्वरूपावस्थितेः, तदभावे त्वकिंचित्करतयाऽवस्तुत्वप्राप्तेः । व्यवहारस्य तु बहिस्तत्त्वनिरूपकाभिप्रायस्य पुनश्चरणे हते भजना-विकल्पना ज्ञानदर्शनयोः, कार्याभावेनैकान्ततः कारणाभावासिद्धेः निर्धूमस्यापि वन्हेर्दर्शनादिति ॥ तदियता ग्रन्थेन यदुक्तं द्वावेव मागौं | जिनवरैरुक्ताविति तद् व्यवस्थापितमधुना तत्रापिशब्दसूचितसंविग्नपाक्षिकेन सह तयोरेव स्वकार्यकारित्वमाह-" सुज्झइ" गाहा । 'संविग्गपक्खरुइ' त्ति संविग्ना-मोक्षाभिलाषिणः सुसाधवस्तत्पक्षे तदनुष्ठाने रुचिरभिलाषोऽस्येति संविग्नपक्षरुचिः । सिद्धिप्रतिबद्धविशुद्धबुद्धिबन्धुः सदापि यः सुमनाः संविग्नपाक्षिकोऽसौ तत्त्वाऽन्यत्र प्रवृत्तोऽपि ॥ ते तर्हि संविग्नपक्षरुचयः कथं लक्ष्यन्त इत्याह-“ संविग" गाहा । यदनया गाथया प्रतिज्ञातं तदेव संविग्नपाक्षिकलक्षणमाह-"सुद्ध" गाहा। " वंदइ" गाहा । शुद्धं सुसाधुधर्म कथयति, न पुनः स्वमन्दाचारपोषत्वेनाशुद्धम् । तथा कथनस्य दुरन्तत्वेन ज्ञानत्वात्तथाहि
"नो सत्थं न विसं न साय(इ)णिवसो नो पेय-भूयग्गहो, दुकालो न दुराउलं न जलणो जालाकरालोचितं ।
सिद्धंतो जिणदेसिओ कुमइणा लोएण मिच्छगहा, संपाडिज्ज अणत्थसत्थमिह जं देसिज्जमाणोऽन्नहा ॥ १॥" 'सव्वोमरायणिओ' त्ति-सर्वावमरात्निकः अद्यदिनदीक्षितेऽल्पोऽध्यात्मानं न्यूनं मन्यते इत्यर्थः, कृतिकर्मवन्दनकविश्रामणादिकं सुसाधूनां स्वयं करोति, न पुनस्तान् कारयति ॥ किमित्यात्मार्थ न प्रावाजयतीत्याह-" ओसन्नो" गाहा । न केवलमात्मार्थ प्रवाजयन् भवजलधौ छुडति, वितथं प्ररूपयन्नपि ब्रुडतीत्याह-“जह " गाहा । यथा हि शरणोपगतानां जीवानां यः शिरांसि कृन्तति स विश्वासघातकोऽभिधीयते । एवमाचार्योऽप्युत्सूत्रं प्रज्ञापयन् विश्वासघातक एव । तथा च तानात्मनं च दुर्गतौ क्षिपतीति । निगमयन्नाह-“सावज" गाहा । सावद्ययोगानां सर्वथा त्यागेन यतिधर्मः प्रथमः सर्वोत्तमो मोक्षमार्गस्तद्धेतुत्वादपरावपि मोक्षमार्गाविति ॥ शेषाणां का वार्तेत्यत आह-"सेसा" गाहा। शेषाः-प्रोक्तयतिव्यतिरिक्ताः मिथ्यादृष्टयो विपरीतामिनिवेशाद्भवानुयायिन
| ॥
२१॥

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574