Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 550
________________ उपदेशमालाविशेषवृत्ती जमालिकथा। नैते दोषास्तस्यानृतकारणं किं स्यात् ॥ ११ ॥ तथा-आगमो ह्याप्तवचनमाप्तिर्दोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं, न ब्रूयाद्वेत्यसंभवात् ।। १२ ।। ततः स्थितमेतत्-'क्रियमाणं कृतमिति सत्यमेतदातोक्तत्वादितरवाक्यवत् । न च भगवद्वचनं-" पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युक्तिभिः-॥ १३ ॥” इत्यादितुल्यम् । जात्यसुव. पर्णवत्तापादिशुद्धत्वात् । अन्यथा 'अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चनं भूत्वा, तापादिभ्यो बिभेति किम् ।। १४ ॥' इत्याद्यपालम्भभाजनं स्यात् । यत्तूक्तं-'संस्तीर्यमाणसंस्तीणयोर्भिन्नकालात्तस्ये 'त्यादि तदपि बालप्रलपितं, क्रियाकालनिष्ठाकालयोः कथंचिदेकत्वाभ्युपगमेन संस्तीर्णसमयेऽपि कथंचित्संस्तीर्णत्वनिर्णयात् ।। तथाहि-क्रियमाणक्षणे कृतत्वमप्यस्त्यन्यथा क्रियमाणाद्यक्षणादिष्विवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कदाचित्कृतोऽयमिति प्रत्ययो नोत्पद्यते । यदि हि पटस्यान्त्यक्षणं यावन्नि. पद्यमानदशायां मनागपि न निष्पन्नताऽभूत्तदा कदापि कथं निष्पन्नः पटो व्यपदिश्येत । अन्यथा घटेऽपि निष्पन्ने निष्पन्नः पट इति व्यपदेशः स्यादुभयन्त्र प्रकटस्य निष्पन्नत्वाभावात् । ननु यद्येक-द्वि-त्र्यादितन्तुप्रक्षेपकाले पटस्य निष्पद्यमानत्वेन निष्पन्नता स्यात्तदानीं तन्तुवायस्य तदेव तत् क्रियोपरतिर्भवेत् । नैवम्-एकद्वित्रितन्तुप्रक्षेपकाले हि एकद्विव्यादितन्तुका एव पटाः प्रारब्धा निष्पन्नाश्च परिपूर्णपटस्तु चरमतन्तुप्रक्षेपकाल एवारभ्यते निष्पद्यते च । ततः कथमादावेव तक्रियोपरतिः प्राप्नोत्येवं संस्तारकेऽपि योज्यमित्यत्र बहु वक्तव्यम् । तच्च विशेषावश्यकादवगन्तव्यम् ।। एवं बहुविधं साधुभिरभिहितोऽपि जमालिर्यावद्भगवद्वचनं न प्रतिपद्यते। तावज्जातं मिथ्यात्वं, गतोऽयमधुना, न योग्यः सेवाया इत्यवधार्य विमुच्य च ते तदन्तिकं श्रीमहावीरस्वामिनमेवाशिश्रियुः ।। इतश्च सुदर्शना जमालिवन्दनानिमित्तं तत्रैवागता श्रीमहावीरश्रावकठङ्ककुम्भकारगृहे अवग्रहमनुज्ञाप्य तस्थौ ॥ सा च कृतमेव कृतं न क्रियमाणं कृतमिति जमालिवाक्यमनेकधा कर्णयन्ती पतिरागं च किंचिञ्चिन्तयन्ती तदेवाभ्युपगतवती ढङ्कस्याग्रतः प्रतिपादित वती च । ततस्तेन जमालिवृत्तान्ताऽभिज्ञेन छद्मनोक्तमायें ! नाहमेवंविधं विशेषं ज्ञातुं शक्तो यथा भगवान् सत्यो जमालिवैत्यभिधाय तूष्णीं स्थितस्तावद्यावदन्यथा स्वाध्यायपौरुषीं कुर्वत्या एवास्या आपाकमस्तकस्थानि भण्डकान्यवतारयता तेन झगित्येव ज्वलद ॥५०८॥

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574