Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमाला विशेषवृत्तौ
॥ ५०७ ॥
सम्यक्संयमतपःप्रमुखैः ।। ८ || संक्लिश्यन्तः सर्वासु, यान्ति दुःखार्द्दिता यथा गतिषु । अरहट्टघटीयन्त्रन्यायेन पुनः पुनस्तत्र ॥ ९ ॥ संक्लेशलाघावाल्लंघयन्ति संसारसागरं च यथा । अवितथमकथि तथा तत् सर्वं तीर्थाधिनाथेन ॥ १० ॥ अत्रान्तरे भवोत्त्रस्तचेता जमालिः स्वामिनं प्रणम्य व्यजिज्ञपत्-यथा भगवन् ! पितृभ्यामनुज्ञातो युष्मदन्तिके ग्रहीतुमिच्छामि प्रव्रज्याम् । भगवता तु मा प्रतिबन्धं विधस्वेत्युक्तः प्रणत्य स्वगृहानगादपृच्छच्च व्रतार्थे मातापितरौ । कथं कथमपि ताभ्यामनुज्ञातः पुरुषसहस्रवाह्यां शिबिकामारुह्य महाविभूत्या भगवन्तमुपतस्थे । भगवताऽपि पञ्चशतराजपुत्रपरिवारोपेतः प्रत्राजयाञ्चक्रे । तत्पत्नी च सुदर्शना स्त्रीसहस्रपरिवारा प्रव्राजिता । द्वयोरपि सामायिकाद्येकादशाङ्गपर्यन्ता श्रुतसम्पत्सम्पदे, कालेन गीतार्थतायां जातायां जमालिर्जाताचायैपदप्रतिष्ठोऽनुष्ठाननिष्ठाप्रष्ठः पञ्चभिरनगारशतैः परिवृतो ग्रामनगरादिषु विहरन् कदापि श्रावस्त्यां नगर्यां तिण्डुकोद्याने कोष्ठकचैत्येऽवग्रहमनुज्ञाप्य स्थितवान् । तत्र चान्तप्रान्ताद्याहाराभ्यवहारोत्पन्नदाहज्वरः संस्तारकाऽऽस्तरणाय साधूनादिक्षत्, तैश्चच्छाम इति भणित्वा संस्तरीतुमारब्धम् । स च गाढतरवेदनया दोदूयमानतनुः पुनरवादीत् । यथा भोः श्रमणाः ! संस्तीण्णं नवेति । तेऽवोचन् - संस्तीर्ष्णम् । ततोऽसौ समेत्य यावद्वीक्षांचक्रे तावत्संस्तीर्यमाण संस्तारकं विलोक्य सकष्टमुपविष्टः सकोपमवदत् - किं भोः साधवो ! भवद्भिरर्द्धसंस्तीर्णोऽपि संस्तारकः संस्तीर्ण इति भणितः । तैरवादि - ' कज्जमाणे कडे ', 'चलमाणे चलिए ', ' उदीरिज्जमाणे उदीरिए ', ' निज्जरिज्जमाणे निज्जिन्ने' इत्यादिभगवद्वचनप्रामाण्यात्, ततोऽसौ कियतीमपि वेलां संस्तारके स्थित्वा तत्क्षणोपजात मिथ्यात्वकर्मोदयादुदितदुर्विकल्पः शरीरात्मनि च संक्रान्ते दाहज्वरे साधूनाहूयाब्रवीत् — भोः साधवः ! श्रूयतां तात्पर्यं पर्यालोचितमस्माभिः । यदेतदर्हता-— कज्जमाणे कडे ' इत्याद्युच्यते न तत्सुपर्यालोचितवचनम् । संस्तीर्यमाण संस्तीर्णयोर्भिन्नकालत्वस्येदानीमेव दर्शनात् क्रियाकालनिष्ठाकालयोरत्यन्तं भेदात्ततो भगवद्वचसि स्खलितमेतदिति प्रतिजानीमहे । एवमुक्ताश्च ते साधवः केचिदेवमेतदिति प्रतिपेदिरे । अपरे त्ववगतभगवद्वचनयथावस्थितार्था एवमभिदधुर्यथा - जमालिसूरे ! नैतद्युक्तमुक्तं त्वया यतो न भगवान् कदाचिदसत्यं जल्पत्यविकल केवलालोकत्वेन वीतरागद्वेषत्वेन च वितथकथने कारणाभावात् ॥ रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु
जमालिकथा ।
॥ ५०७ ॥

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574