Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमाला - विशेषवृत्तौ
।। ५१४ ॥
ततः पदत्रयस्य कर्मधारयः । धिग्जीवितमिति - धिक्कारार्ह प्राणधारणेन जीवति ॥ यतः सातिचारस्यायं दोषस्तस्मादित एव निरतिचा रेण भाव्यं । यस्तु चिन्तयेत् द्राधीयान्मे पर्यायस्तत एवेष्टसिद्धिर्भविष्यति किं निरतिचारतया तं प्रत्याह - " न तहिं " गाहा । ' संगणिज्जं ' ति - सम्यक्संख्यायन्ते एतावन्ति दिवसादीनि मे व्रतिनो जातस्येति तस्मान्मूलोत्तरगुणास्खलनायां तात्पर्यं कार्यम् । सा च गाढमप्रमादिनो भवति । यत आह - " जो नवि " गाहा । ' अगुणेहि य' त्ति अगुणैश्च मिथ्यात्वादिभिर्न च स्खलितो मोक्षमार्गाच्यावित इति । ' अज्जियामिति मे शब्दार्थों मिशब्दः पठनीयः अन्यथा गाथाभंगात् । तदेवमादित आरभ्याने काकारेपूपदेशेषु सदनुष्ठानगोचरेषु दत्तेष्वपि केचिन्न प्रतिपद्यन्ते प्रतिपन्नमपि चापरे शिथिलयन्तीति दर्शयन्नाह – “ इय ” गाहा । इत्युक्तेन प्रकारेण गणितं परिसंख्यातं ' संवत्सरमुसभजिणो' इत्यादिना सदनुष्ठानमिति विशेष्यं सर्वत्र गम्यते इति तुलितमाकलितमत्रन्तिसुकुमालोदाहरणादिना । इति बहुधा दर्शितमार्यमहागिरिदृष्टान्तादिना । नियमितं च नियन्त्रितं अन्वयव्यतिरेकाभ्यां - 'समिईकसायगोरवेत्यादि यतनयान्वयेन 'बायालमेसणाओ ' इत्यादिना व्यतिरेकेण नियतं दर्शितमिति यावत् । यदि तथापीयताऽप्यादरेण कथयता न प्रतिबुध्यते गुरुकर्मभिः सद्भिर्न तत्त्वदर्शिभिर्भूयते, ततः किं क्रियतामन्यत्समधिकतरं ? नून निश्चितं भवितव्यमनन्तकालं यावत्संसारे तैरिति गम्यते ॥ ८१ ॥ एतदेव शिष्यप्रश्नपूर्वकमाह – “ किमगंतु " - येन संयमश्रेणि: शिथिलीकृता भवति स किमिति पुनरगन्तुः- सम्यगनुष्ठानमार्गे गन्ता न भवति, उच्यते स तदेत शैथिल्यमेव प्रति - सामस्त्येन मोहबाहुल्याद्वश्रयति वज्रनिबिडं करोति । यथा पश्चादतिकृछ्रेणोद्यच्छत्युद्यमं करोति । यथा ह्युच्चैः स्थानात्पतितो भग्नाङ्गोपाङ्गतया पुनरारोहाय दुःखमुद्यच्छत्येवमेषोऽपीत्यर्थः । उक्तञ्चासकृत्प्रागप्ययमर्थः । ' काऊण संकिलिट्ठ दुलहं विसोहिपय 'मिति । " अवि नाम चक्कवट्टी चएज सव्वं पि चक्कट्टसुहं । न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ ॥ १ ॥ " इति च एतच्चायुक्ततरं यत उक्तम् — “ वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारच्युतोपलः ॥ २ ॥ " इति ततो मूलादेव प्रमादो रक्षणीयः । ' किमगंतु ' इत्यत्रानुस्वारव्यत्ययं कृत्वा तुशब्दं चार्थे व्यवस्थाप्य किं चांगेति प्राग्वृत्तौ व्याख्यातमस्ति तद्यदि सहृदयानां हृदयंगमं
हितोपदेशः ।
।। ५१४ ॥

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574