Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५१० ॥
कर्माण्येव घना - मेघा जीवचन्द्रावारकत्वात्कर्मघनास्तेषां महाजालं - निबिडसमूहम् || इन्द्रियकषायादिभिः केवलं कर्मैव बध्नाति न पुनः कश्चिदत्र परमार्थो वैषयिकसुखस्य दुःखरूपतया पामकण्डूयन कल्पत्वादतिविनोदद्वारेण विपर्यासात्, तत्राविवेकिनां सुखबुद्धिप्रवृत्तिः ॥ उक्तं च- ' तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि, क्षुधार्त्तः सन् शालीन् कवलयति मांस्पाकव ( सादिक ) लितान् । प्रदीप्ते रागाग्नौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥ १॥ एतदेव सूत्रगाथयाह — 'परपरिवाये' त्यादि । आद्यपादेन द्वेषकार्यमुक्तम् । द्वितीयेन रागकार्थं, रागद्वेषवशगाः प्राणिनोऽरति विनोदमात्रमेवानुभवन्ति न तु सुखं किंचिदिति ॥ ६१ ॥ लौकिकत्रतिनोऽप्येतादृशा एवेति दर्शयति- " आरंभ " गाहा आरम्भः स्नानादौ षट्कायोपमद्दः पाकश्च धान्यादीनां तयोनिरता - आसक्ताः लौकिकऋषयस्तापसाः कुलिङ्गिनश्च कापालिकतपस्विप्रभृतयस्ते किमित्याह ' दुहओ चुक्का नवरं ' ति । न केवलमुभयतो भ्रष्टा-न ते गृहस्थास्तद्विरुद्धवेषत्वान्नापि यतयो हिंसादिप्रवृत्तत्वात् । अतो ' जीवंति दरिद्दजियलोए ' ति दरिद्रवत् दैन्यवृत्त्या जीवलोको जीविका यस्मिन् जीवने तत्तथा जीवन्तीति क्रियाविशेषणमेतत् । जैनदर्शनादन्ये यतयो मोहादारम्भादौ वर्त्तमानास्तेन विडबेनोदरपूरणमात्रमेव कुर्वन्तीत्यर्थः ।। ६२ ।। जैनसाधूनां पुनरेतच्चेतसि वर्त्तत इत्याह-" सव्वो " गाहा। हिंसायां विचार्यायां राजबद्रकोऽपि न हन्तव्यः । द्वयोरपि प्रियप्राणत्वादेकतुलया प्राणरक्षाकार्येत्यर्थः । उदगमात्रमेव तडागादिसत्कं स्वपानाय पालयति नत्वन्यदन्नादिमात्रस्याप्यात्मीयस्याभावादित्युदकपालो द्रमकः । न च नैवाभयदानत्रतिना सर्वप्राणिनामभयप्रदानप्रवृत्तेन यतिजनोपमानेन लोकतुल्येन भाव्यं यथाहुलौकिकाः - अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ।। आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्मा भवेदिति । पीडाप्रवृत्तेऽपि परे पीडा न कर्त्तव्येत्यर्थः ॥ ६३ ॥ एवं च कुर्वन्नविवेकिभिरक्षमो गण्यत इत्याह – “ पाविज्जइ " गाहा । प्राप्यते व्यसनं हीलारूपमन्त्राविवेकिना जनेन हेतुकर्तृभूतेन क्षमावान् सन् यथा त्वं छगलको बस्तोऽशक्तोऽक्षम इति, अत एव चण्डिकादेर्बलिम्बस्तेनैवाशक्तेन लोकः करोति न पुनर्व्याघ्रेण तेजस्विना कोऽपि करोति । एवं त्वमपि यदि शक्तिं दर्शयेस्तदा न केनापि परिभूयेथा इति । एवं हील्यमानेनापि साधुना क्षमैव
हितोपदेशः ।
।। ५१० ।।

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574