________________
उपदेशमालाविशेषवृत्तौ
॥ ४७९ ॥
सनोपवेशादिबाह्यस्फुटाटोपरूपा । "उक्कोडालं च (वा) वञ्चना वक्रत्रतधारणेन परविप्रतारणा । कपटं प्रागुक्तमेव । एतानि धर्मस्य साधनानीति शेषः । कुत एतदित्याह - 'निच्छम्मो' इत्यादि यत उक्तं- ' सुद्धस्स होइ चरणं, मायासहिए उ चरणभेउ ' त्ति ॥ ३९४ ॥ गतमानुषङ्गिकं संप्रत्यायव्ययतुलना यान्यधिकृत्य कर्त्तव्या तान्याह - " भिक्खू " गाहा । भिक्षुर्द्विविधो-गीतार्थश्वागीतार्थश्च अभि षेक उपाध्यायः । रात्निक - आचार्यः । चेवशब्दादनुक्तस्थविरादिपरिग्रहः । ' एवं तु पुरिसवत्युं ' ति एतदेवं रूपं पुरुषा एव ज्ञानादिगुणवसनयोगाद्वस्तु पुरुषवस्तु आयव्ययतुलनाया गोचरो भवतीति गम्यते । ' दव्वाइ' त्ति द्रव्यक्षेत्रकालभावरूपतया च चतुर्विधं पुरुषवस्तुनः शेषमन्यच्च तस्यागोचरो भवति ।। अयं भावार्थ:- एतानि तुलयित्वा यद्बहुलाभं तद्विधेयमन्यथा त्वतिचारः स्यात् ॥ ३९५ ॥ स चातिचारो ज्ञानदर्शनचारित्रेषु स्यात्तत्र चारित्रस्य मोक्षं प्रत्यन्तरङ्गकारणत्वात्तस्यातिचारांस्तावदाह
चरणइयारो दुविहो, मूलगुणे चैव उत्तरगुणे य । मूलगुणे छट्टाणा, पढमो पुण नवविहो तत्थ ॥ ३९६ ॥ सेसुकोसो मज्झिम जहन्नओ वा भवे चउद्धा उ । उत्तरगुणणेगविहो, दंसणनाणेसु अट्ठट्ठ ॥ ३९७ ॥ जं जयइ अगीयत्थो, जं च अगीयत्थनिस्सिओ जयइ । वट्टावेइ य गच्छं, अनंतसंसारिओ होइ ॥ ३९८ ॥ कह उ जयंतो साहू, वट्टावेई य जो उ गच्छं तु । संजमजुत्तो होउं, अनंतसंसारिओ होइ ? ॥ ३९९ ॥
चारित्रातिचारो द्विविधो मूलगुणविषय उत्तरगुणविषयश्च । तत्र मूलगुणेषु षट् स्थानानि पञ्च महाव्रतानि रात्रिभोजनविरतिव्रतषष्ठानि । तेष्वपि प्रथमः प्राणातिपातगोचरो नवभेदो-पृथ्व्यप्तेजोवायुत्रनस्पतिद्वीन्द्रिय-त्रोन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियरक्षणविषयत्वात् ॥ ३९६ ॥ “ सेसुकोसो " गाहा । शेषो मृषावादादिषु पञ्चसु उत्कृष्टो मध्यमो जघन्यश्चेति त्रिविधो भवति । ' वा भवे चउद्धा ' त्ति चतुर्द्धा वा द्रव्यादिभेदाद् भवेत् । उत्तरगुणविषयोऽतिचारोऽनेकविधो भवति पिण्डविशुद्धयादिगोचरत्वात्तेषां वाऽनेकरू१' उक्कोड ' त्ति उत्कोचा, यदि मह्यमेतद्देहि ततोऽहमिदं करोमित्यादिलक्षणा, इति सिद्धवृत्तौ ।
ज्ञानादिषु अतिचाराः ।
।। ४७९ ।।