________________
उपदेशमालाविशेषवृत्तौ|
Thache
0
कथं साधुरपि
अनंतसंसारी।
॥४८॥
पत्वादिति । दर्शनज्ञानयोरष्टाष्टपदान्यतिचारगोचरत्वेन भवन्ति ।। तत्र दर्शने निःशङ्कितत्वादीनि, ज्ञाने कालविनयादीनि ॥ ३९७ ॥ साम्प्रतं 'भिक्खू ग्गीयमगीए' ति यदुक्तं तत्रागीतार्थस्यागमरहस्याऽनभिज्ञतया सव्वोऽनधिकारितां दर्शयति-" जंजयइ " गाहा यदगीतार्थों यतते स्वयं तपोऽनुष्ठानादौ यत्नं करोति । यद्वा गीतार्थनिश्रितो यतते गुरुत्वेन गृहीत्वेत्यर्थः ‘वर्तयति च'-पालयति गच्छम् । चशब्दादजानन्नप्यभिमानेन ग्रन्थान् व्याचष्टे, स तेन चेष्टितेनानन्तसंसारिको भवति ॥३९८।। अ(त)त्राह परः-"कह उ" गाहा । कथं पुनर्यतमानादिरपि साधुरनन्तसंसारिको भणित इति ॥ ३९९ ॥ अत्रोत्तरम्दव्वं खित्तं कालं, भावं पुरिसपडिसेवणाओ य । नवि जाणइ अग्गीओ, उस्सग्गववाइयं चेत्र ॥ ४०० ॥ जहठियदव्य न याणइ, सच्चित्ताचित्तमीसियं चेव । कप्पाकप्पं च तहा, जुग्गं वा जस्स ज होई ॥ ४०१ ॥ जह ठियखित्त न जाणइ, अद्धाणे जणवए अजं भणियं । कालंपि.अ नवि जाणइ, सुभिक्खभिक्ख जंकप्पं ॥४०२॥ भावे हट्ठगिलाणं, न वि याणइ गाढऽगाढकप्पं च । सहुअसहुपुरिसरूवं, वत्थुमवत्थु च नवि जाणे ॥ ४०३ ॥ पडि सेवणा चउद्घा, आउट्टिपमायदप्पकप्पेसु । नवि जाणइ अग्गीओ, पच्छित्तं चेव जं तत्थ ॥ ४०४ ।। ___ अगीतार्थो हि द्रव्यादीनि न जानाति, उत्सर्गापवादिकं चानुष्ठानं न जानात्यतो ज्ञानाभावाद्विपरीतं प्रवर्तत, ततः कर्मबन्धस्ततोऽनन्तसंसार इति द्वारगाथार्थः ॥ ४०० ॥ तत्र द्रव्यव्यवहारमाह-"जह" गाहा । यथास्थितं द्रव्यं न जानाति । कथमित्याहसचितमचित्तं मिश्रकं चैव तथा कल्प्यमकल्प्यं च । योग्यं वा प्रायोग्यं यस्य ग्लानादेर्यद्भवति तन्न जानातीति ॥ ४०१ । क्षेत्रकालद्वारे आह-"जह " गाहा । यथास्थितं क्षेत्रं न जानाति कथमित्याह-अध्वनि मार्गे जनपदे च जनाकुले देशे यद्भणितं कर्तव्यतयोक्तम् । कालमपि च नैव जानाति कथमित्याह-सुभिक्षे यत्कल्प्यं दुर्भिक्षे चेति ॥४०२।। भावपुरुषद्वारे आह–“भावे" गाहा । भावे विचार्य 'हष्ट-नीरोग, ग्लानं-रोगाक्रान्तं नापि जानाति 'गाढागाढकलप्यं च' । 'गाढे'-महति प्रयोजने, 'अगाढे च'
॥१८०॥