Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 202
________________ स्तबकः :] स्याद्वादवाटिकाटीकासङ्कलितः www.wm " विषयत्वरूपं ज्ञानक्रियाकर्मत्वम्, स्वस्य चात्मनि विशेष्ये प्रकारत्वात्मकविशेषणत्वरूपं क्रियात्वं च योग्यत्वाद् भासते, यद्यपि चक्षुषा घटमहं जानामीत्येवमप्यभिलापो भवति तथापि चक्षुरादिकरणस्यायोग्यत्वात् तदंशे तस्य न साक्षात्त्वमिति किमनुपपन्नम् ? ज्ञानस्य परेणैव प्रकाश इत्यभ्युपगन्तॄणां नैयायिकादीनां मते च ज्ञानस्य प्रत्यक्षानुपपत्तिः, 'घटमहं जानामि' इत्यनुव्यवसायात्मकतत्प्रक्षक्षणे 'अयं घटः' इति ज्ञानस्वरूपव्यवसायलक्षणविषयस्याभावात्, प्रत्यक्षं प्रतिविषयस्य कारणत्वेन व्यवसायरूपविषयात्मक कारणाभावे अनुव्यवसायात्मकतत्प्रत्यक्षरूपकार्यासंभवात् न च प्रथमक्षणे 'अयं घटः' इति व्यवसायस्ततो द्वितीयक्षणे ज्ञानत्वस्य निर्विकल्पक प्रत्यक्षं ततस्तृतीयक्षणे ज्ञानत्व विशिष्टज्ञानप्रत्यक्षं व्यवसायविषयकं भविष्यति तदानीं व्यवसायरूपविषयस्याभावेऽपि तदव्यवहितपूर्वक्षणे सत्वात्, कार्यान्यवहितपूर्वक्षणवृत्तित्वादेव तस्य कारणत्वोपपत्तेः, ततो ज्ञानत्व विशिष्टज्ञानात्मक विशेषणज्ञानादात्मविशेष्यकज्ञानत्वविशिष्टज्ञानप्रकारकं 'घटमहं जानामि इति ज्ञानत्वविशिष्टवैशिष्ट्यावगाहिज्ञानम्, विशेषणं च न विशिष्टप्रत्यय हेतुः, तत्तां विनाऽपि 'सोऽयं घटः' इति प्रत्यभिज्ञानस्य तत्ताविशिष्टबुद्धिरूपस्योत्पादात् एवं च तदानीं घटविषयकव्यवसायलक्षण विशेषणाभावेऽपि तद्विशिष्टबुद्धेर्नानुपपत्तिरिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात्, अन्यथा विनश्यदवस्थघटचक्षुस्सन्निकर्षांद् घटनाशक्षणे घटप्रत्यक्षप्रसङ्गात्, तथा च ज्ञानत्वनिर्विकल्प कज्ञानानन्तरक्षणे विषयस्य व्यवसायस्याभावेन तदा तत्प्रत्यक्षानुपपत्तेः, तदानीं ज्ञानस्य व्यवसायलक्षणस्यातीतत्वेन जानामीति वर्तमानत्वज्ञानानुपपत्तेश्च; न च तत्र ज्ञाने विशेपणतया भासमानं वर्तमानत्वं वर्तमानस्थलकालवृत्तित्वं न तु वर्तमानक्षणवृत्तित्वं, क्षणस्यातीन्द्रियत्वेन प्रत्यक्षे भानासम्भवादिति वाच्यम्, प्रत्यक्ष प्रकारविधया तस्य भानासम्भवेऽपि संसर्गविधया तद्भानसंभवात्, अत एव सम्बन्धप्रत्यक्षे यावत्सम्बन्धिप्रत्यक्षं कारणमिति समवायसम्बन्धिनोऽतीन्द्रियस्यापि सम्भवेन समवायस्य न प्रत्यक्षमित्यभ्युपगन्तृवैशेषिकमते प्रत्यक्षे प्रकारतया समवायस्याभानेऽपि 'रूपवान् घटः' इत्यादिविशिष्टबुद्धौ संसर्गतया भानमिति । " 'www १५९ किञ्च यथा घटज्ञान प्रकारकात्मविशेष्यकज्ञानमहं घटज्ञानवानिति भवति , तथा समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेनात्मप्रकारकघटज्ञानविशेष्यकज्ञान

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300