Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 250
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः णात्, एनमेव आत्मादृष्टसंयोगवादलक्षणप्रकृतवादमेव, विद्वांसः पण्डिताः, मध्यस्थगीतार्था इति यावत्, तत्त्ववादं परमार्थवादं पारमार्थिकाभ्युपगममिति यावत्, प्रचक्षते कथयन्ति, एतद्विपरीतवादस्यापारमार्थिकत्वात् ॥ १०९॥ 'एनमेव' इत्यनेनैवकारेण यद्व्यवच्छेद्यं तदुपदर्शयतिलोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् । २०७ wwwwww इत्थं तत्त्वविलोमं यत्, तन्न ज्ञानविवर्धनम् ॥ ११० ॥ लोकायत मतमिति - नास्तिकदर्शनमित्यर्थः । प्राशैः सूक्ष्मदर्शिभिः । पापौघकारणं पापौघस्य - पापसमुदायस्य, क्लिष्टकर्मसमूहस्येति यावत्, कारण- निमित्तम् । ज्ञेयं ज्ञातव्यम् । पापसमूह निमित्तत्वे हेतुमाह-यदितियस्मात् कारणादित्यर्थः । इत्थम् उक्तेन प्रकारेण । तत्त्वविलोमं परमार्थप्रतिकूलं, यथार्थपदार्थज्ञानप्रतिकूलमिति यावत् । " तन्न ज्ञानविवर्द्धनम्” इत्यस्य स्थाने “तथाऽज्ञानविवर्द्धनम्" इत्युपाध्यायसम्मतः पाठः, ' तथा, अज्ञानविवर्धनम्-क्लिष्टवासनासंतति हेतुः' इत्येवं व्याख्यानात्, “ तथा ज्ञानविवर्धनं न-न तत्त्वसंवेदनोपकार्येव, अपि तु प्रतिपक्षवृद्धिकारकमित्यर्थः ” इत्येवं व्याख्यानतः श्रीहरिभद्रसूरिसम्मतः “तथा न ज्ञानविवर्द्धनम्" इति पाठो नादरणीयः, अनुष्टुभो नवाक्षरचरणकत्वाभावात्, किन्तु “तथा ज्ञानाविवर्द्धनम्” इति पाठो युक्तः, ज्ञानाविवर्द्धनमिति तु ज्ञानविवर्द्धनं नेत्येवमुलिखितुं शक्यत्वात्, तच्छब्दस्य तथेत्यर्थकतामाश्रित्य “तन्न ज्ञानविवर्द्धनम् ” इति पाठोऽपि श्रीहरिभद्रसूरिसम्मतो भवितुमर्हतीति बोध्यम् ॥ ११० ॥ चार्वाकदर्शनस्य विषयापरिशुद्ध्यैदम्पर्याशुद्ध्या च न द्रव्यसत्यत्वं नापि भावसत्यत्वमित्येतत् परोक्तैतदुत्पत्तिप्रकारदूषणव्याजेन दर्शयति wwwwwwwww इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः । 7 अदोsपि युक्तिशून्यं यत्थमिन्द्रः प्रतार्यते ॥ १११ ॥ इन्द्रप्रतारणायेति । उपाध्यायास्तु " अत्र द्रव्यासत्यत्वमपि नास्ति, इति परोक्तैतदुत्पत्तिप्रकारदूषणच्छलेनाह-' इत्येवमवतारितवन्तः श्रीहरिभद्रसूरयस्तु - "अस्य मूढजनविकल्पितविषय विभागनिराकरणायाह -" इत्यवतरणिकामाहुः अस्य दर्शनस्य पदार्थतत्त्वनिरूपणे न तात्पर्यमतः एतदुपदर्शितपदार्थ " " www www

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300