Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 252
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः २०९ तदुत्पत्तिकारणप्रतिपादकस्यापि परवचनस्याविचारितरमणीयत्वाच परदर्शनस्य सर्वथैवासत्यत्वादित्यर्थः । दुष्टाशयकरमित्यादि 'नास्तिकदर्शनम्' इत्यस्य विशेषणत्रितयं तस्य परिहरणीयत्वे निमित्तम् , परलोकायभावसाधनप्रवणत्वेन ___ "यावजीवेत् सुखं जीवेणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः? ॥" [ ] इत्यादिवचनोद्गारतो यथेष्टाचरणफलकविषयेच्छामात्रपरिणतचित्ताध्यवसायस्वरूपदुष्टाशयनिबन्धनमिति दुष्टाशयकरमित्यस्यार्थः, क्लिष्टसत्त्वविचिन्तितं क्लिष्टवासनासन्ततिमत्त्वेन क्लिष्टसत्त्वैरामुष्मिकापायचिन्तनविकलैरैहिकवैषयिकसुख एवात्यन्तलोलुपैरज्ञानवृद्धिमद्भिर्विचिन्तितं-स्वेच्छया प्रकटीकृतं, न तु सुराचार्योपदिष्टम् , अस्मादेव कारणात् पापश्रुतम् असमञ्जसत्वेन श्रूयमाणमप्यनुषङ्गतः पापनिबन्धनम् , उपादेयबुद्ध्या श्रूयमाणं तत् पापनिबन्धन भविष्यतीत्यत्र किमु वक्तव्यम् , यतश्चैवमतः धीरैः महासत्त्वैः, ज्ञानवृद्धैरिति यावत् , सदा यदा यदा कथमपि ज्ञानपथमुपयाति तदा, वयं परिहरणीयम् , नास्तिकदर्शनम् अतिरिक्तात्मानभ्युपगन्तृचार्वाकदर्शनम् । भावार्थस्तूपाध्यायैरित्थमत्र दर्शितः-"न त्वत्राग्रे वक्ष्यमाणेषु वार्तान्तरेष्विव द्रव्यासत्यत्वाशङ्काऽपि विधेया, अन्यथा तामेव च्छलमुपलभ्य प्रकृतिदुष्टा विषयपिशाची छलयेदिति भावः” इति ॥ ११२ ॥ यद्यपि नास्तिकानामखर्वगर्वपरीतानां न काचिदीदृशी युक्तिर्यया मुक्तिप्रसरहरणं न क्रियते, एकैकाऽपि युक्तिर्नास्तिकैर्मुक्तिप्रचारापहारचतुरैवोद्भाविता, तथाऽप्यनुकूलतर्कसचिवप्रमाणापेता यथा तथा बाह्यदृष्टान्तादिपरिकरा स्वमतकदाग्रहप्रवृत्ता सर्वाऽपि सा आस्तिकानां नयैः प्रमाणतर्कसधीचीनः कामं खण्डितैव भवति, यथा जगति अमारजनीसमुद्गतध्वान्तधारा आलोकनिकरापहारैकप्रवणा स्वसत्तां घूक-रजनिचरानुकूलामासाद्य विजृम्भमाणाऽपि स्वात्य. न्तापहारप्रयाणाप्रपृष्यसूर्यकरनिकरैरत्यन्तमेवोन्मूलिता भवति, एतद्वार्तासम्यक्श्रयणतो नास्तिकदर्शनास्थां परित्यज्य बुधाः स्याद्वादिनां वादं पौद्गलिकादृष्टसहकृतातिरिक्तात्मप्रसिद्धिप्रवणमशेषावरणविलयसमुत्थपरमानन्दस्वरूपावाप्तिलक्षणमुक्त्यङ्गनालिङ्गितात्मोद्बोधदक्षमत एवैकान्तिकात्यन्तिकशर्महेतुं श्रयत्वित्येवैतत्प्रकरणप्रयोजनमाकलयन्त्युपाध्यायाः, तदुक्तम् १४ शास्त्र०स०

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300