________________
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः
२०९ तदुत्पत्तिकारणप्रतिपादकस्यापि परवचनस्याविचारितरमणीयत्वाच परदर्शनस्य सर्वथैवासत्यत्वादित्यर्थः । दुष्टाशयकरमित्यादि 'नास्तिकदर्शनम्' इत्यस्य विशेषणत्रितयं तस्य परिहरणीयत्वे निमित्तम् , परलोकायभावसाधनप्रवणत्वेन ___ "यावजीवेत् सुखं जीवेणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य, पुनरागमनं कुतः? ॥" [ ] इत्यादिवचनोद्गारतो यथेष्टाचरणफलकविषयेच्छामात्रपरिणतचित्ताध्यवसायस्वरूपदुष्टाशयनिबन्धनमिति दुष्टाशयकरमित्यस्यार्थः, क्लिष्टसत्त्वविचिन्तितं क्लिष्टवासनासन्ततिमत्त्वेन क्लिष्टसत्त्वैरामुष्मिकापायचिन्तनविकलैरैहिकवैषयिकसुख एवात्यन्तलोलुपैरज्ञानवृद्धिमद्भिर्विचिन्तितं-स्वेच्छया प्रकटीकृतं, न तु सुराचार्योपदिष्टम् , अस्मादेव कारणात् पापश्रुतम् असमञ्जसत्वेन श्रूयमाणमप्यनुषङ्गतः पापनिबन्धनम् , उपादेयबुद्ध्या श्रूयमाणं तत् पापनिबन्धन भविष्यतीत्यत्र किमु वक्तव्यम् , यतश्चैवमतः धीरैः महासत्त्वैः, ज्ञानवृद्धैरिति यावत् , सदा यदा यदा कथमपि ज्ञानपथमुपयाति तदा, वयं परिहरणीयम् , नास्तिकदर्शनम् अतिरिक्तात्मानभ्युपगन्तृचार्वाकदर्शनम् ।
भावार्थस्तूपाध्यायैरित्थमत्र दर्शितः-"न त्वत्राग्रे वक्ष्यमाणेषु वार्तान्तरेष्विव द्रव्यासत्यत्वाशङ्काऽपि विधेया, अन्यथा तामेव च्छलमुपलभ्य प्रकृतिदुष्टा विषयपिशाची छलयेदिति भावः” इति ॥ ११२ ॥
यद्यपि नास्तिकानामखर्वगर्वपरीतानां न काचिदीदृशी युक्तिर्यया मुक्तिप्रसरहरणं न क्रियते, एकैकाऽपि युक्तिर्नास्तिकैर्मुक्तिप्रचारापहारचतुरैवोद्भाविता, तथाऽप्यनुकूलतर्कसचिवप्रमाणापेता यथा तथा बाह्यदृष्टान्तादिपरिकरा स्वमतकदाग्रहप्रवृत्ता सर्वाऽपि सा आस्तिकानां नयैः प्रमाणतर्कसधीचीनः कामं खण्डितैव भवति, यथा जगति अमारजनीसमुद्गतध्वान्तधारा आलोकनिकरापहारैकप्रवणा स्वसत्तां घूक-रजनिचरानुकूलामासाद्य विजृम्भमाणाऽपि स्वात्य. न्तापहारप्रयाणाप्रपृष्यसूर्यकरनिकरैरत्यन्तमेवोन्मूलिता भवति, एतद्वार्तासम्यक्श्रयणतो नास्तिकदर्शनास्थां परित्यज्य बुधाः स्याद्वादिनां वादं पौद्गलिकादृष्टसहकृतातिरिक्तात्मप्रसिद्धिप्रवणमशेषावरणविलयसमुत्थपरमानन्दस्वरूपावाप्तिलक्षणमुक्त्यङ्गनालिङ्गितात्मोद्बोधदक्षमत एवैकान्तिकात्यन्तिकशर्महेतुं श्रयत्वित्येवैतत्प्रकरणप्रयोजनमाकलयन्त्युपाध्यायाः, तदुक्तम्
१४ शास्त्र०स०