________________
२०८
शास्त्रवार्तासमुच्चयः ।
[प्रथमः
तत्त्वस्य युक्त्यानुपपन्नत्वलक्षणं यद् द्रव्यासत्यत्वं तदिष्टमेव चार्वाकस्य, यदिन्द्रप्रतारणप्रयोजनार्थमिदं दर्शनं विनिर्मितं तदिन्द्रप्रतारणमतो जातं, येन प्रतारित इन्द्रो हिंसायां न दोष इति मत्वा वृत्राख्यदानवं व्यापादितवानिति वृत्रव्यापादने न दोष इत्यैदम्पर्यभावस्य स्वरूपतश्चार्वाके दर्शनप्रवर्तके सत्त्वाद् भावसत्यत्वमस्त्येवेति, तदपि न समीचीनं-दिव्यदृष्टेरिन्द्रस्य प्रतारणासम्भवान्न तत्कारणकमिदं ततो नोक्तदिशा द्रव्यासत्यत्वं तस्य सम्भवति, इन्द्रप्रतारणासम्भवात् तद्विषयकाभिप्रायलक्षणभावस्तु नासीदेवेति कथं तस्य स्वरूपतः सत्यस्वमपीत्युपाध्यायाभिप्रायः; तद्दर्शन न तत्त्वावबोधाय प्रवृत्तमतो निरूपितं तत्त्वं नास्य वस्तुनो विषय इति तस्य दूषणगणकलितत्वं न क्षतिकरं, किन्तु इन्द्रप्रतारणमेवास्य विषयः, स चातो जात एवेत्येवं मूढजनैर्विकल्पितः स्वकपोलकल्पनयोपनीतो यो विषयस्यान्यदर्शनविषयाद् विभागस्तस्य दिव्यबुद्धेरिन्द्रस्य प्रतारणासम्भवान्निराकरणं तदर्थमाहेत्येवमभिप्रायः श्रीहरिभद्रसूरीणामिति बोध्यम् । इन्द्रप्रतारणाय वृत्रो ब्राह्मणस्तस्य हनने "न ब्राह्मणं हन्याद्" इति निषिद्धाद् ब्रह्महननादधमों मे भविष्यति, ततो नरकयातना महती स्यादित्येवं हिंसादिभीत्या वृत्रवधेऽप्रवर्तमानस्येन्द्रस्य 'परलोको नास्ति, परलोकगामी आत्माऽपि नास्ति, धर्माधौं न स्तः' इति वृत्रवधे कृते भवतोऽधर्माद्यभावो वृत्रादुपद्रुतस्य लोकस्य सुखं भविष्यतीत्येवं वृत्रदानवव्यापादनार्थ हिंसादिभीतस्येन्द्रस्याधर्माद्यभावभ्रममाधाय लोकसुखार्थ प्रेरणाय । इदं लोकायतमतम् । किल इति सत्यार्थकं, न तु वृद्धपरम्परायातस्वरूपैतिह्यार्थकम् । बृहस्पतिः सुराचार्यः । चक्रे कृतवान् । अदोऽपि एतदपि परस्य वचनम् । युक्तिशून्यं युक्तिरहितम् , अविचारितरमणीयमिति यावत् । अत्र हेतुः-यत् यस्मात् । इत्थं भूतचतुष्टयमात्रतत्त्वप्रत्यक्षमात्रप्रमाणादिप्रदर्शनपरदर्शनात्मकबृहस्पत्युक्तप्रकारेण, इन्द्रः सुरलोकाधिपतिः । न प्रतार्यते न प्रतारयितुं शक्यते, दिव्यदृष्टित्वात् तस्येति ॥ १११ ॥ उपसंहरति
तस्माद् दुष्टाशयकर, क्लिष्टसत्त्वविचिन्तितम् ।
पापश्रुतं सदा धीरैर्वज्यं नास्तिकदर्शनम् ।। ११२ ॥ तस्मादिति । यस्मात् तदुपदर्शितविषयस्य विचार्यमाणस्य युक्त्यनुपपन्नत्वात् ,