________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
णात्, एनमेव आत्मादृष्टसंयोगवादलक्षणप्रकृतवादमेव, विद्वांसः पण्डिताः, मध्यस्थगीतार्था इति यावत्, तत्त्ववादं परमार्थवादं पारमार्थिकाभ्युपगममिति यावत्, प्रचक्षते कथयन्ति, एतद्विपरीतवादस्यापारमार्थिकत्वात् ॥ १०९॥ 'एनमेव' इत्यनेनैवकारेण यद्व्यवच्छेद्यं तदुपदर्शयतिलोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् ।
२०७
wwwwww
इत्थं तत्त्वविलोमं यत्, तन्न ज्ञानविवर्धनम् ॥ ११० ॥ लोकायत मतमिति - नास्तिकदर्शनमित्यर्थः । प्राशैः सूक्ष्मदर्शिभिः । पापौघकारणं पापौघस्य - पापसमुदायस्य, क्लिष्टकर्मसमूहस्येति यावत्, कारण- निमित्तम् । ज्ञेयं ज्ञातव्यम् । पापसमूह निमित्तत्वे हेतुमाह-यदितियस्मात् कारणादित्यर्थः । इत्थम् उक्तेन प्रकारेण । तत्त्वविलोमं परमार्थप्रतिकूलं, यथार्थपदार्थज्ञानप्रतिकूलमिति यावत् । " तन्न ज्ञानविवर्द्धनम्” इत्यस्य स्थाने “तथाऽज्ञानविवर्द्धनम्" इत्युपाध्यायसम्मतः पाठः, ' तथा, अज्ञानविवर्धनम्-क्लिष्टवासनासंतति हेतुः' इत्येवं व्याख्यानात्, “ तथा ज्ञानविवर्धनं न-न तत्त्वसंवेदनोपकार्येव, अपि तु प्रतिपक्षवृद्धिकारकमित्यर्थः ” इत्येवं व्याख्यानतः श्रीहरिभद्रसूरिसम्मतः “तथा न ज्ञानविवर्द्धनम्" इति पाठो नादरणीयः, अनुष्टुभो नवाक्षरचरणकत्वाभावात्, किन्तु “तथा ज्ञानाविवर्द्धनम्” इति पाठो युक्तः, ज्ञानाविवर्द्धनमिति तु ज्ञानविवर्द्धनं नेत्येवमुलिखितुं शक्यत्वात्, तच्छब्दस्य तथेत्यर्थकतामाश्रित्य “तन्न ज्ञानविवर्द्धनम् ” इति पाठोऽपि श्रीहरिभद्रसूरिसम्मतो भवितुमर्हतीति बोध्यम् ॥ ११० ॥ चार्वाकदर्शनस्य विषयापरिशुद्ध्यैदम्पर्याशुद्ध्या च न द्रव्यसत्यत्वं नापि भावसत्यत्वमित्येतत् परोक्तैतदुत्पत्तिप्रकारदूषणव्याजेन दर्शयति
wwwwwwwww
इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः ।
7
अदोsपि युक्तिशून्यं यत्थमिन्द्रः प्रतार्यते ॥ १११ ॥ इन्द्रप्रतारणायेति । उपाध्यायास्तु " अत्र द्रव्यासत्यत्वमपि नास्ति, इति परोक्तैतदुत्पत्तिप्रकारदूषणच्छलेनाह-' इत्येवमवतारितवन्तः श्रीहरिभद्रसूरयस्तु - "अस्य मूढजनविकल्पितविषय विभागनिराकरणायाह -" इत्यवतरणिकामाहुः अस्य दर्शनस्य पदार्थतत्त्वनिरूपणे न तात्पर्यमतः एतदुपदर्शितपदार्थ
"
"
www
www