SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०६ शास्त्रवार्तासमुच्चयः । [प्रथमः "इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो, मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता। देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः, साक्षात् साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ॥" इति ॥ १०७ ॥ अदृष्टस्य हेतूपदर्शनपूर्वकमात्मसंयोजनप्रकारमुपदर्शयति हेतवोऽस्य समाख्याताः, पूर्व हिंसानृतादयः । तद्वान् संयुज्यते तेन, विचित्रफलदायिना ॥ १०८ ॥ , हेतवोऽस्येति । अस्य अदृष्टाख्यस्य कर्मणः, पूर्व "हिंसाऽनृतादयः पञ्च" इत्यादिनिरूपणात्मकप्रारम्भकाले, हिंसानृतादयः आदिशब्दात् स्तेया-ऽब्रह्मपरिग्रहाणां ग्रहणम् , हेतवः कारणानि, समाख्याताः सम्यगुक्ताः, तद्वान् हिंसादिमान् , हिंसादिक्रियाऽध्यवसायपरिणत इति यावत् ,-तेन अदृष्टाख्यकर्मणा, किंविशिष्टेनेत्याकाङ्क्षायामाह-विचित्रफलदायिनेति-विचित्रा-शुभफलदेनेत्यर्थः, संयुज्यते अन्योऽन्यसम्बन्धेन बध्यते ॥ १०८ ॥ उक्तेषु वादेषु सद्वादत्वाजैनाभ्युपगतपौद्गलिकादृष्टवाद एव ज्यायानित्युपदर्शयति नैवं दृष्टेष्टबाधा यत् , सिद्धिश्चास्यानिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते ॥ १०९॥ नैवमिति । एवम् उक्तेन प्रकारेणात्मनः कर्मसंयोगे स्वीक्रियमाणे । दृष्टेष्टबाधा न दृष्टविरुद्धकल्पने यादृशं वचिदपि न दृश्यते तादृशस्य परिकल्पने वा दृष्टबाधा भवति, प्रकृते तु यथाऽमूर्ते आकाशादौ मूर्तस्य घटादौ संयोगो दृश्यते तथा मूर्तस्य पौगालिकादृष्टस्यामूर्तेनात्मना संयोग इति दृष्टबाधा न भवति, एवं शुभकर्मजनितेनादृष्टेन संयोगादात्मनः सुखानुभवलक्षणोऽनुग्रहः, अशुभकर्मजनितेनादृष्टेन संयोगादात्मनो दुःखानुभवलक्षण उपघातश्चेष्ट एव, यथा अमूर्तस्यापि ज्ञानस्य ब्राह्मीघृतोपभोगतोऽधिकविषयावगाहित्वस्पष्टप्रकाशकत्वादिलक्षणोऽनुग्रहः, मद्यपानादिना च यथावद्विषयाग्रहणादिलक्षण उपघातश्च भवतामपीष्ट इतीष्टबाधा न भवति । यत् यस्मात् , सिद्धिश्च अस्य कर्मणः, अनिवारिता प्रतिकूलपराहता न भवति, तत् तस्मात् कार
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy