________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
वियति विहङ्गमशरीरवत्, तत्संयुक्तद्रव्यवच्च, एतेनेन्द्राऽग्नि-यमादिलोकपालप्रतिपादका आगमा व्याख्याताः, सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारःआत्मैवेदं सर्वमिति, यथा- एक एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि; अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत् ? तद्भावेऽपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्, कारणैकदेशस्य च कारणान्तरं प्रत्यनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् ; शरीरस्थितिरेवं न त्वन्यस्थितिरिति चेत् ? न-प्राणेन्द्रिययोः स्थितेरव्यापनात्, प्राङ्न्यायेनापास्तत्वाच्च; अत्राप्यागमः - " एतस्य वा अक्षरस्य प्रशासने द्यावापृथिव्यौ विष्टते तिष्ठतः" इति, प्रशासनं दण्डभूतः प्रयत्न इति”,
कार्यमात्रं प्रत्यदृष्टाख्यकर्मणः कारणत्वं नैयायिकेनापि स्वीक्रियते, तत एव लोकस्थितेरुपपत्तेः, कस्याश्चिद् दृष्टकर्तृकायाः स्थितेः प्रयत्नसाध्यत्वेऽपि अदृष्टकर्तृकायाः स्थितेः प्रयत्नसाध्यत्वे मानाभावात्, उपदर्शितानुमानं च धृतित्वेन प्रयत्नत्वेन कार्यकारणभावसिद्धौ सत्यां सम्भवति, प्रमाणाभावात् तदसिद्धावनुकूलतर्काभावान्न प्रवर्तितुमुत्सहते, अन्वय- व्यतिरेकौ च स्थितिविशेष- प्रयत्नविशेषयोरेव, न तु तत्सामान्ययोरित्येवं लोकस्थितेरीश्वराधीनत्वासम्भवात् । अदृष्टसिद्धयुपसंहृतावुपाध्यायस्येत्थ मुक्तिः
“मरोचिरुच्चैः समुदञ्चतीयं, जैनोक्तभानोर्य ददृष्टसिद्धिः ।
निमील्य नेत्रे तदसौ, वराकश्वार्वाकधूकः श्रयतां दिगन्तम् ॥” इति, १०६ ॥ इत्थं सिद्धस्यादृष्टस्य विभिन्नदर्शन परिभाषितान् व्यञ्जनपर्यायानुपदर्शयतिअदृष्टं कर्म संस्कारः, पुण्यापुण्ये शुभाशुभे ।
www
wwwww
www.
धर्माधर्मौ तथा पाशः, पर्यायास्तस्य कीर्तिताः ॥ १०७ ॥ अदृष्टमिति । अदृष्टमिति वैशेषिका नैयायिकाच, कर्म इति जैनाः, संस्कारः इति सौगताः, पुण्यापुण्ये इति वेदवादिनः, शुभाशुभे इति गणकाः, धर्माधम इति सङ्ख्याः, तथा एवं पाश इति शैवाः, तस्य अदृष्टस्य, पर्यायाः व्यञ्जनपर्यायाः, कीर्तिताः कथिताः, एकस्मिन्नर्थे वाचकतया परिभाषितत्वात् पर्याया इति कथ्यन्ते, न त्वेषां समानप्रवृत्तिनिमित्तकत्वे सत्येकार्थवाचकत्वं पर्यायत्वम्, प्रवृत्तिनिमित्तभेदादिति बोध्यम् । एकस्यैवाटस्य मतभेदेन नामभेद इत्यत्र उदयनाचार्यवचनमपि
wwwww
#
www.
wwwwwww
२०५
w