________________
२०४ शास्त्रवार्तासमुच्चयः।
[प्रथमः र्थमुपनिपतितादावश्यकत्वमित्यनिर्मोक्षप्रसङ्गान्न मोक्षो वादिन इत्यर्थः । ननु तत्त्वज्ञानेन मिथ्याज्ञानोन्मूलने तन्मूलकदोषाद्यभावान्नवीनकर्मबन्धनं मा जन्यताम् , नहि कारणाभावे कार्योत्पत्तिः कस्याप्यभिमता, परं त्वनादौ संसारे सञ्चितानां कर्मणां भावात् तत्तजन्मावश्यम्भावे कथं तत्त्वज्ञानिनस्तद्भवोपरम एव मुक्तिरित्यत आह-तत्त्वज्ञानस्येति
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे' [ ] इत्यादिश्रुतितः "ज्ञानाग्निः सर्वकर्माणि, भस्मसात् कुरुतेऽर्जुन !"[ ] इत्यादिस्मृतेश्च तत्त्वज्ञानस्य प्रारब्धेतरसकलकर्मनाशकत्वं भवतोऽपि मान्यमेव, अत एव "नाभुक्तं क्षीयते कर्म" इत्यादि वचनं च कर्मपदस्य प्रारब्धकर्मपरत्वमाश्रित्य प्रारब्धकर्मणां भोगादेव नाश इत्यभिप्रायकतया "अवश्यमेव भोक्तव्यम्" इत्यादिवचनं च भुज्धातोः कर्मनाशोपभोगतत्त्वज्ञानान्यतरपरत्वमाश्रित्य कस्य. चित् कर्मणः सुख-दुःखरूपफलोपभोगेन कस्यचिच्च तत्त्वज्ञानात्मकोपभोगेन नाश इत्यभिप्रायकतयोपपादितमन्यत्रेति बोध्यम् , न चैकस्यैवैकजातीयानुत्पादविनाशजनकत्वमदृष्टचरमित्यावेदयितुं दृष्टान्तमुट्टङ्कयति-यथेतीति” ।
न च योगरूपप्रायश्चित्तस्यादत्तफलनिष्ठोद्देश्यतासम्बन्धेन प्राग्जन्मकृतकर्मस्वभावान्निरुक्तसम्बन्धेन प्रायश्चित्ताभाववत्कर्मत्वलक्षणकारणतावच्छेदकधर्माक्रान्तेभ्यस्तेभ्यः फलोत्पत्त्यापत्तिरिति न युक्तं, योगस्य हि प्रायश्चित्तत्वस्वीकारे भवतामपसिद्धान्तः स्यादिति वाच्यम् , "सव्वा वि य पव्वजा पायच्छित्तं भवंतरकडाणं पावाणं कम्माण" [ ] इति ग्रन्थकृतैवान्यत्रोक्तत्वात् , ["सर्वाऽपि च प्रवज्या प्रायश्चित्तं भवान्तरकृतानां पापानां कर्मणाम्"] इति संस्कृतम् , अपि च, मोक्षोपाये कर्मक्षयार्थितयैव मुमुक्षूणां प्रवृत्तिः, न तु दुःखध्वंसार्थितया, पुरुषप्रयत्नं विनैव जायमाने दुःखध्वंसे पुरुषप्रयत्नस्याकिञ्चित्करत्वादित्यतोऽपि कर्मसिद्धिः, अपि च, ज्योतिश्चक्रादेर्गुरुत्वादिना पातापत्तिभिया लोकस्थितेः कर्माधीनत्वस्य स्वीकरणीयत्वेन ततोऽपि कर्मसिद्धिरनिवार्यैव,
एतेन धृत्येश्वरसाधनं नैयायिकानामपास्तं, कर्मणैव धृतरुपपत्तेः, भृत्या चेश्वरसाधनं चेत्थमुपदर्शितमुदयनाचार्येण, तथाहि-"क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मत्वात् ,
MANAW