________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
२०३ स्यात् , तथा नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकादृष्टभावे नारक-ब्रह्मघातकशरीरपरिग्रहोऽपि भवेदिति सूपपादितं तेषु तत्त्वज्ञानफलम् , न च नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकादृष्टाभावे एव तत्त्वज्ञानोत्पत्तिरिति न तत्त्वज्ञानिनां नारक-ब्रह्मघातकशरीरपरिग्रहप्रसङ्ग इति वाच्यम् , एवं सति शूकरादिशरीरोत्पादकादृष्टाभाव एव तत्त्वज्ञानोत्पत्तिरित्यस्यापि कल्पययितुं शक्यतया कायव्यूहस्यैवापलापापत्तः, किञ्च, तत्त्वज्ञानेन कायव्यूहोत्पादेऽपि अनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्यनानाफलजननं न सम्भवति, न च तदन्तरेण तादृशफलनाश्यादृष्टनाशसम्भवः, न चोक्तादृष्टनाशमन्तरेण मुक्तिः, न च शूकरादिशरीरोपभोग्यमप्यदृष्टफलं योगिनां स्वायुर्नियतमेव कल्प्यत इति वाच्यम् , लाघवात् तादृशकर्मणामनुपभोग्यत्वकल्पनस्यैव न्याय्यत्वात् , तच्च भवोपग्राह्यदृष्टचतुष्टयाख्यम्, तत्राप्यायुषः कर्मत्रयस्याधिकस्थितिकत्वे तत्समीकरणार्थ भगवतः केवलिसमुद्धातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न सम्भवति, केवलिसमुद्धात एव च परेषां कायव्यूहभ्रमः, तदालम्बनेनैव चेश्वरस्य सर्वांवेशप्रतिपादिका श्रुतिरिति न्यायखण्डखाद्ये व्यक्तीकृत स्वाशयमवलम्ब्याह-दृष्टविपरीतकल्पनप्रसङ्गादिति-दृष्टं ह्येकदैकस्य जीवस्यैकमेवौदारिक शरीरं, तद्विपरीतमेकदैव खर-तुरग-मनुजादिनानाशरीरं तस्य कल्पनप्रसङ्गादित्यर्थः; ननु यद्युक्तप्रसङ्गभयान्न तत्त्वज्ञानेन कायव्यूहद्वारा भोगेन कर्मणो नाशः, तर्हि साक्षादेव शैलेशीकरणरूपप्रयत्नसहकृतात् तत्त्वज्ञानात् कर्मनाशो वाच्यः, स तु व्यतिरेकव्यभिचारेणैव न सम्भवति, तत्त्वज्ञानाभावेऽप्यन्यत्र भोगेन कर्मणो नाशात् , एवं भोगस्यापि व्यभिचारेण न कर्मनाशकत्वमित्यत आह-भोग-तत्त्वज्ञानादीनामेकशक्तिमत्त्वेनेति-न भोगत्वं नवा तत्त्वज्ञानत्वं कर्मनाशकतावच्छेदकं, किन्तु भोगानुकूलशक्तिमत्त्वमेवेति कुतो व्यभिचारावकाशः,
"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥" इत्यादिवचनादुपभोगस्यैव कर्मनाशकत्वमिति पक्षो यस्तु न जहाति तं प्रत्याह-उपभोगादेवेति, "मा हिंस्यात् सर्वभूतानि" इति श्रुत्या भवन्मान्ययाऽपि प्राणिमात्रवधस्यानिष्टसाधनत्वं बोध्यते, 'नानुपमृद्य भोगः' इत्युपभोगे भूतानामुपमर्दनमावश्यकमिति तत्कर्मफलोपभोगाय जन्मान्तरमावश्यकम् , तत्रापि क्रमिकनानाशरीरोपभोग्यनानाकर्मोपार्जनस्य नानाभूतोपमर्दनादुपभोगा