________________
mmmm
२०२ शास्त्रवार्तासमुच्चयः।
[प्रथमः पाकात् ; तथापि तत्त्वज्ञानद्वारस्वाचारित्रमुपक्षीणमिति चेत् ? न-व्यापारताग्राहकतयान्तरवशादेव तस्यानुपक्षयात् , “तेण दासेण मे" [ ] इत्यादिनयात् तदुपक्षयेऽपि न क्षतिः, एवं हि व्यवहितं न कारणमिति शुद्धर्जुसूत्रनये ज्ञानस्यापि चारित्रेणोपक्षयस्य सुवचत्वात् , उभयानुग्रहस्तु नैगमयुक्तिपर्यालोचनया तदुपजीविस्याद्वादेन चेत्यादिविवेचितमध्यात्ममतपरीक्षायामस्माभिरिति तत एवावधार्यमिति" इति ।
न्यायालोकेऽपि कायव्यूहद्वाराऽशेषकर्मभोगादेव तत्त्वज्ञानिनः कर्मक्षय इत्यस्यापाकरणमुपाध्यायैरित्थं कृतम्-"न च भोगादेव कर्मक्षयः, तत्त्वज्ञानादपि कायव्यूहद्वारा तत्तच्छरीरोपभोग्यकर्मोपभोगेनैवादृष्टक्षयाभ्युपगमादिति वाच्यम् , दृष्टविपरीतकल्पनप्रसङ्गात् , मनुजादिशरीरसत्त्वे शूकरादिशरीरानुत्पत्तेः भोगतत्त्वज्ञानादीनामेकशक्तिमत्त्वेन कर्मनाशकत्वौचित्यात् , उपभोगादेव कर्मक्षयेऽ. परकर्मनिमित्तव्यापारात् प्रचुरतरकर्मार्जनेऽनिर्मोक्षप्रसङ्गाच्च, तत्त्वज्ञानस्य स्वागामिकर्मानुत्पाद इव सञ्चितकर्मनाशेऽपि सामर्थ्यम् , यथा भाविशीतस्पर्शानुत्पाद समर्थस्योष्णस्पर्शस्य पूर्वशीतस्पर्शनाशेऽपीति नानिर्मोक्षः" इति । ___एतद्न्थमस्मद्गुरुचरणा इत्थमवतरणपुरस्सरं व्याख्यातवन्तः, तथाहि-"ननु "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि ॥"[ ] इति स्मृतेर्भोगमन्तरेण कथं कर्मणां नाशः ? न च
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे ॥ १॥" [ ] इति श्रुतेः, "ज्ञानाग्निः सर्वकर्माणि, भस्मसात् कुरुतेऽर्जुन ! ॥"[ ] इत्यादिस्मृतेश्व तत्त्वज्ञानस्य निखिलकर्मक्षयहेतुत्वं प्रतीयत एव भवन्मतेऽपीति वाच्यम्, वामदेव-सौभरिप्रभृतीनां कायव्यूहश्रवणात् तत्त्वज्ञानेन तत्तत्फलोपभोगक्षमकायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयादिति न तत्त्वज्ञानसहितशैलेशीकरणप्रयत्नसाध्यत्वं कर्मक्षयस्येति परमतमाशय निषेधयति-न चेति-वाच्यमित्युत्तरेण योगः, विभ्वात्मवादिनो नैयायिकस्य मते निष्क्रियस्यात्मनो न देहान्तरसञ्चारलक्षणो जन्मपदार्थः सम्भवति, परं देहान्तरसम्बन्धः, एवं च योगिनामेकदा नानाकर्मफलोपभोगार्थं तुरङ्ग-कुरङ्ग-विहङ्ग-मतङ्गज-शम्बर-धूकशूकर-शृगाल-बिडालादिशरीरपरिग्रहोपगमे एकस्मिन्नेव भवे भवसहस्रसार्य
MAMmmm