SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः २०१ योगिनां प्राग्जन्मकृतानामपि नानाकर्मणां न फलदातृत्वं भवति, न च प्राग्जन्मकृतनानाकर्मोद्देशेन योगो विधीयत इति योगरूपप्रायश्चित्तस्यादत्तफलनिष्ठोहेश्यतासम्बन्धेन प्राग्जन्मकृतकर्मसु न सत्त्वमिति तदभावविशिष्टकर्मत्वलक्षणकारणतावच्छेदकाक्रान्तेभ्यः प्राग्जन्मकृतनानाविधकर्मभ्यः स्वस्वविलक्षणफलोत्पत्तिर्योगिष्वपि प्रसज्यत इति योगरूपप्रायश्चित्तस्यादृष्टनाशकत्वं विना न निर्वाहः; न च योगात् कायव्यूहद्वारा भोग एवेति साम्प्रतम् , नानाविधानन्तशरीराणामेकदाऽसम्भवात् । ___ यथा च योगिनस्तत्त्वज्ञानिनः कायव्यूहद्वाराऽशेषकर्मोपभोगो न सम्भवति तथोपपादितं श्रीमद्भिर्यशोविजयोपाध्यायैर्महावीरस्तवप्रकरणे न्यायखण्डखाद्याख्यवृत्तिसमलङ्कृते, तथा च तत्संदर्भ:-"अथ क्षायोपशमिके ज्ञाने यथा तथाऽस्तु, केवलज्ञानं तु क्लुप्तकारणभोगद्वारैव कर्मक्षयजनकं स्यात् , तत्राह "ज्ञानं न केवलमशेषमुदीर्य भोग, कर्मक्षयक्षममबोद्धृदशाप्रसङ्गात् । वैजात्यमेव किल नाशकनाश्यतादौ, तत्रं नयान्तरवशादनुपक्षयश्च ॥७९॥" केवलज्ञानमशेष भागमुदीर्य कायव्यूहमहिम्नोपस्थाप्य कर्मक्षयक्षममिति न वाच्यम् , कस्मात् ? अबोद्धृदशाप्रसङ्गात्-अबोद्धृतापत्तेः, एवं हि शूकरादिभोग्य कर्म क्षपयितुं शूकरादिशरीरमिवैकेन्द्रियादिशरीरभोग्यं ज्ञानावरणं क्षपयितुमेकेन्द्रियादिशरीरमपि परस्य तत्त्वज्ञानी परिगृह्णीयात् , तथा च तद्वदेवाबोद्धृता. प्रसङ्गः; अज्ञानं न भोग्यं सुखदुःखानन्यतरत्वादिति न प्रसङ्ग इति चेत् ? न"जात्यायु गास्तद्विपाकः” [ ] इति सूत्रयता योगाचार्येण कर्मफलमात्रस्य भोग्यत्वातिदेशात् ; तत्त्वज्ञानप्रतिबन्धककर्मनाशादेव कैवल्योत्पत्तेर्नायं प्रसङ्ग इति चेत् ? स एव कुतो जातः ?, विविदिषा-शम-दमादिसह कृतयत्याश्रमोचिताचारादिति चेत् ? यथा पूर्व शरीरापेक्षभोग विनैव ततोऽदृष्टविशेषनाशस्तथा तत्त्वज्ञानोत्पत्यनन्तरमपि तत एव स किमिति नाद्रियते, किं कायव्यूहादिकल्पनाक्लेशेन ?, नाश्यनाशकतावच्छेदकवैजात्यकल्पनं त्वदृष्टे ज्ञान-क्रियादौ चावश्यकमेवेति न व्यभिचारादिदोषः, यथा च विविदिषादिनाऽदृष्टविशेषक्षयो न भोगद्वारा तत्त्वज्ञानेनापि, भोगेन वितरे क्षपयित्वेति वाक्यशेषे च तृतीया न भोगस्य कारणत्वं व्यवस्थापयति, किन्तु निर्जरानान्तरीयकप्रदेशानुभवस्य नियतपूर्वसत्वमात्रमिति स्पष्टीभविष्यत्यनुपदमेव; न च तत्त्वज्ञानादनन्तरमेव भवोपग्राहिकर्मक्षयः, चिरोपदेशश्रुतिविरोधात् , किन्तु समाधिविशेषाचारित्रपरि
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy