________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
तत्तत्प्रायश्चित्तस्यैव निवेशादन्यप्रायश्चित्तस्य तत्रानिवेशेन तस्य सत्त्वेऽपि नानुपपत्तिः, अथवा तत्तत्प्रायश्चित्तविशिष्टादत्तफलध्वंसा तिरिक्तध्वंसस्य व्यापारत्वमिति नानुपपत्तिरिति चेत् ? तथापि तत्त्वज्ञानिक्रियायास्तत्तत्प्रायश्चित्ताभावविशिष्टकर्मव्वलक्षणकारणतावच्छेदकधर्माक्रान्तत्वेन तत्क्रियाध्वंसत्य वा तत्तत्प्रायश्चित्तविशिष्टादत्तफलध्वंसातिरिक्तध्वंसरूपस्य व्यापारत्वसम्भवेन तत्त्वज्ञानिक्रियया भोगापत्तिः स्यात् ; तत्तत्प्रायश्चित्ताभावविशिष्टकर्मत्वस्य कारणतावच्छेदकत्वपक्षे कर्मणि तत्त्वज्ञानिक्रियाभिन्नत्वं तत्तत्प्रायश्चित्त विशिष्टादत्तफलध्वं सातिरिक्तध्वंसस्य व्यापारत्वपक्षे तादृशध्वंसे तत्त्वज्ञानिक्रियाध्वंसातिरिक्तत्वं वा निवेशनीयमिति तत्त्वज्ञानिक्रियाया निरुक्तकारणतावच्छेदकधर्मानाक्रान्तत्वात् तत्त्वज्ञानिक्रियाध्वंसस्य वा व्यापारत्वाभावान्न ततो भोगापत्तिरिति चेत् ? तथापि तत्तत्क्रियाध्वंसरूपव्यापारस्यानन्तत्वापत्तिः; अदृष्टरूपव्यापाराभ्युपगन्तृपक्षे तु चरमभोगेनादृष्टस्य नाशाद् व्यापाराभावादेव भोगानन्तरं न पुनर्भोग इति न भोगानन्त्यम्, चरमभोगानन्तरं व्यापारसत्त्वेऽपि भोगं प्रति भोगप्रागभावस्यापि कारणत्वेन तदभावादेव न भोगापत्तिरितिचेत् ? तर्हि प्रायश्चित्तस्थलेऽपि प्रागभावाभावादेव भोगानुत्पत्तिरिति कर्मत्वमात्रस्य कारणतावच्छेदकत्वस्वीकारेऽपि न प्रायश्चित्तस्थले फलोत्पत्तिप्रसङ्ग इति प्रायश्चित्ताभावस्य कारणतावच्छेदककोटौ निवेशनं किमिति क्रियत इति; ननु प्रायश्चित्तविधायक विधिवैयर्थ्यं मा प्रसाङ्गीदियेतदर्थं प्रायश्चित्ताभावविशिष्टकर्मत्वेन कारणत्वमभ्युपगम्यत इति चेत् ? तर्हि प्रायश्चित्तविधिसामर्थ्यादरे एतत्पाप निवृत्त्यर्थमिदं प्रायश्चित्तं कर्तव्यमित्यवबोधकप्रायश्चित्तविधिबलाद् विजातीयप्रायश्चित्तानां विजातीयादृष्टनाशकत्वमेवोचितम्, तथा सत्येवासङ्कुचितार्थकत्वं विधेः, गोवधादिकर्मणां केवलानामेव नरकादिसाधनत्वं विधितः प्रतीयमानं सुरक्षितं भवति, तत्तत्प्रायश्चित्तस्य तत्तत्पापनिव र्तकत्वमपि विधिबोधितमनाकुलं भवति, लाघवं चात्र सहकारीति, गौरवादेव च चरमभोगप्रागभाव विशिष्ट तत्तत्प्रायश्चित्तविशिष्टादत्तफलध्वं सातिरिक्ततत्त्वज्ञानिक्रियातिरिक्तध्वं साधारतासम्बन्धेन गोवधादिक्रियायाः फलसाधनत्वमप्यपाकृतं भवति, विशेष्यविशेषणभावे विनिगमनाविरहादपि कारणतावच्छेदकसम्बन्धस्यानेकत्वेनानेककार्यकारणभावापत्तिनिबन्धन गौरवान्तरतस्तथा हेतुत्वं न सम्भवतीति; किञ्च तत्तत्त्रियाणां तत्तत्प्रायश्चित्तोद्देश्यत्वमपि तत्तत्क्रियाजन्यकर्मनाशेच्छा विषयतयैव सुष्ठु निर्वहति, नान्यथा, इत्यतोऽप्यदृष्टसिद्धिः किञ्च योगे कृते
"
२००