________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
१९९
धादिप्रायश्चित्तस्यैतत्पूर्वजन्मकृतगोवधादिरपि प्राग्वृत्तिर्भवतीति तजन्यनरकस्थापि निरुक्तप्रतिबध्यतावच्छेदकधर्माकान्तत्वेनैतजन्मकृतगोवधादिप्रायश्चित्तध्वंसादेतत्पूर्वजन्मकृतगोवधादिजन्यनरकाद्युत्पत्तिप्रसङ्गात् , तत्तत्प्रायश्चित्तप्राग्वतितजन्मकृतगोवधादिजन्यनरके तत्तत्प्रायश्चित्तध्वंसः प्रतिबन्धक इत्येवं विशिष्य प्रतिबध्यप्रतिबन्धकभावकल्पना तु न सम्भवत्येव, तथाभूतस्य प्रतिबध्यस्यैवाप्रसिद्धेः, सामान्यतः प्रतिबध्यप्रतिबन्धकभावे तु यत्र प्रतिबन्धकं नास्ति तत्र सामान्यतः प्रतिबध्यतावच्छेदकधर्माकान्तं भवतीति तस्य नाप्रसिद्धिः, प्रकृते तु विशिष्य प्रतिबध्यप्रतिबन्धकभावे निरुक्तप्रतिबध्यतावच्छेदकाक्रान्ता तद्व्यक्तिरेव, सा तु न जायत एवेत्यप्रसिद्धिः" इति, तदप्येतेन निरस्तम् , अदत्तफलनिष्ठोद्देश्यतासम्बन्धावच्छिन्नप्रायश्चित्तनिष्ठप्रतियोगिताकाभाव. वकर्मत्वेन नरकादिफलं प्रति कारणत्वे दोषाभावात् ; न च तत्कर्मजन्यापूर्वजनकापूर्वजनकं कर्म तत्कर्मणोऽङ्गं, तत्कर्मजन्यापूर्वजन्यापूर्वजनकं कर्म तत्कर्मणोऽङ्गीति प्रधान मित्येवमपूर्वाभ्युपगमेऽङ्गप्रधानकर्मव्यवस्था भवति, अपूर्वानभ्युपगमे तु सा न स्यादिति वाच्यम् , कर्मणो हि त्रिविधाकाङ्क्षा भवति-किं भावयेत् ?, केन भावयेत् ?, कथं भावयेत् ? इति, तत्र किं भावयेदिति कर्माकाङ्क्षा साध्याकाङ्क्षाऽपरनाम्नी फलाकाङ्क्षा, सा स्वर्ग भावयेदिति फलान्वयेन निवर्तत इति साध्याकाङ्क्षयाः फलान्वय इति, केन भावयेदिति करणाकाङ्क्षा विधेयाकाङ्क्षाऽपरनाम्नी साधनाकाङ्क्षा, सा यागेन भावयेदिति साधनान्वयेन निवर्तत इति तया साधनान्वयः, कथं भावयेदितीतिकर्तव्यताकाङ्क्षा प्रकाराकाङ्क्षा येन येन प्रकारेण यागस्वरूपं सम्पद्यते, यद् यत् कर्म यागस्य सहकारि च तत् सर्व तयाऽऽकाङ्कयाऽन्वेति, तथा च प्रधानकर्मणः कथम्भावाकाङ्गानिवर्त. नाय प्रवृत्तो यो विधिस्तेन विधेयं यत् कर्म भवति तदङ्गं, तत्सहकारेण यत् कर्मफलप्रदानप्रत्यलं तत् प्रधानमित्येवमदृष्टास्वीकारेऽपि प्रधानाङ्गव्यवस्थोपपत्तेः” इत्याहुः।
तदसत्-गोवधादिक्रियोद्देशेन यत्रान्यपापनिवर्तकमेव प्रायश्चित्तं कृतं तत्प्रायश्चित्तस्यादत्तफलगोवधादिनिष्टोद्देश्यतासम्बन्धेनादत्तफलगोवधादावपि सत्त्वेनादत्तफलगोवधस्यादत्तफलनिष्ठोद्देश्यत्वसम्बन्धावच्छिन्नप्रायश्चित्तनिष्ठप्रतियोगिताकाभाववत्कर्मत्वलक्षणफलजनकतावच्छेदकधर्मानाक्रान्ततया तस्मान. रकादिफलानुत्पत्त्यापत्तेः; ननूक्तकारणतावच्छेदककोटिप्रविष्टाभावप्रतियोगितया