________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
,
"
हत्यादिकर्मणोऽभावान्नरक विशेषादिफलानुत्पत्तिसम्भवात् ; न च प्रायश्चित्ताद्यभाववत्कर्मत्वेन नरकादिफलं प्रति ब्रह्महत्यादेः कारणत्वाभ्युपगमे येन ब्रह्महत्यादिकर्मणा नरकादिफलं जातं येन च ब्रह्महत्यादिकर्मणा नरकादिफलं न जातं किन्तु प्रायश्चित्तेऽक्रियमाणे सति फलं स्यात् तदुभयोद्देश्यकप्रायश्चित्ते कृते सति येन कर्मणा फलं जातं तत्प्रत्यकिञ्चित्करमेव तत्प्रायश्चित्तं तत्फलस्य पूर्वमेव वृत्तत्वात् येन च कर्मणा फलं न जातं तत्फलोत्पत्त्यावरोधकत्वेन भवति तत्प्रायश्चित्तं तत् प्रति किञ्चित्करम्, तत्रायं विमर्श: - यदुत, प्रायश्चित्ताभावविशिष्टकर्मत्वेन कारणत्वे कारणतावच्छेदककोटिप्रविष्टाभावप्रतियोगितया तत् प्रायश्चित्तं निवेश्यते न वा ?, यदि निवेश्यते तदा दत्तफलमपि ब्रह्महत्यादि कर्म उद्देश्यतासम्बन्धेन तत्प्रायश्चित्तवदेवेति तत्प्रायश्चित्ताभावविशिष्टकर्मत्वलक्षणकारणतावच्छेदकधर्मानाक्रान्तात् तस्मात् कर्मणो जातमपि फलं जातं न भवेत्, अथ न निवेश्यते तदा तदन्यप्रायश्चित्ताभाववत्कर्मत्वमेव कारणतावच्छेदकं तदाक्रान्तं यथा दत्तफलं कर्म तथाऽदत्तफलमपि कर्मेत्यदत्तफलादपि कर्मणः फलं स्यादिति वाच्यम्, दत्ता ऽदत्तफलोद्देश्यकप्रायश्चित्तस्यापि निरुक्ताभावप्रतियोगितया निवेशस्यावश्यम्भावेऽपि अदत्तफलनिष्ठोद्देश्यत्वसम्बन्धावच्छिन्नप्रायश्चित्तनिष्ठप्रतियोगिताकाभावत्वेनैव प्रायश्चित्ताभावस्य कारणतावच्छेदककोटौ निवेशनीयतया दत्तफले कर्मणि दत्तादत्तफलोद्देश्यकप्रायश्चित्तस्यादत्तफलनिष्ठोद्देश्यतासम्बन्धेनाभावेन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्य तत्र सत्तया निरुक्तकारणतावच्छेदकधर्माक्रान्तात् तस्मात् फलं सम्भवति, अदत्तफले तु कर्मणि तत्प्रायश्चित्तस्यादत्तफलनिष्ठोद्देश्यतासम्बन्धेन सद्भावेन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताका भावस्य तत्रासत्त्वेन निरुक्तकारणतावच्छेदकधर्मानाक्रान्तात् तस्मात् फलोत्पत्त्यापत्त्यसम्भवात् । यदपि " आशुविनाशिनः क्रियारूपस्य प्रायश्चित्तस्य कालान्तरभाविनरकाद्युत्पत्तिकालाव्यवहितपूर्वकालतया सम्भावितकालेऽसतो नरकानुत्पादाप्रयोजकत्वेन भवन्मते न नरकादिप्रतिबन्धकत्वं सम्भवति, व्यापारद्वारा प्रतिबन्धकत्वमदृष्टमनभ्युपगच्छतो मते न सम्भवत्येव प्रायश्चित्तध्वंसस्य नरकाद्युत्पत्तिप्रतिबन्धकत्वाभ्युपगमे तु प्रायश्चित्तानन्तरकृतगोवधादितोऽपि नरकोत्पत्तिर्न स्यात्, नरको पत्त प्रतिबन्धकस्य प्रायश्चित्तध्वंसस्य सद्भावात् ; न च तत्तत्प्रायश्चित्तप्राग्वर्तिगोवधादिजन्यनरके तत्तत्प्रायश्चित्तध्वंसः प्रतिबन्धक इति वाच्यम्,
एतज्जन्मकृतगोव
१९८