SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः १९७ उच्छङ्खलनैयायिकास्तु-"चिरध्वस्तयागादेर्व्यापारमन्तरेण स्वर्गाद्यव्यवहितपूर्वक्षणवृत्तित्वाभावेन वेदबोधितस्वर्गजनकत्वासम्भवात् तदन्यथानुपपत्त्याऽदृष्टं तद्व्यापारतया कल्प्यते, तथा च स्वजन्यादृष्टलक्षणव्यापारवत्त्वसम्बन्धेन यागादेः स्वर्गाद्यव्यवहितपूर्वक्षणवृत्तित्वतः स्वर्गादिकारणत्वं निर्वहतीत्यदृष्टं कल्प्यत इत्युदयनाचार्याद्यभिमतं न युक्तम् , यागादिक्रियायाः स्वध्वंसद्वारेणैव स्वर्गादिकारणत्वसंभवात् , प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादा. स्म्यसम्बन्धेन प्रतियोगिनः कारणत्वेन यागादिध्वंसस्य यागादिजन्यत्वेन तद्व्यापारत्वसंभवात् , न च यागादिक्रियाध्वंसस्यापि यागादिव्यापारविधया यागादिफलस्वर्गादिकं प्रति कारणत्वेन स्वर्गादिकारणीभूतयागादिध्वंसलक्षणाभावप्रतियोगित्वेन स्वर्गविशेष प्रति कारणत्वेनाभिमतस्य यागादेः स्वर्गविशेष प्रति प्रतिबन्धकत्वमापद्यत इति वाच्यम् , प्रतिबन्धकतावच्छेदकेन सम्बन्धविशेषेण प्रतिबन्धकस्य सत्त्वेऽपि सम्बन्धान्तरेण तदभावस्यापि तत्र सत्त्वमिति सम्बन्धान्तरावच्छिन्नप्रतियोगिताकप्रतिबन्धकाभावतः कार्योत्पत्त्यापत्तिवारणाय यत् काये प्रति येन सम्बन्धेन यस्य प्रतिबन्धकत्वं तत्सम्बन्धावच्छिन्नतनिष्ठप्रतियोगिताकाभावत्वेनैव प्रतिबन्धकाभावस्य तत्कार्य प्रति कारणत्वमिति संसर्गाभावत्वेन कारणीभूतस्याभावस्य प्रतियोगित्वमेव प्रतिबन्धकत्वमिति व्यापारविधया कारणस्य यागादिध्वंसस्य न संसर्गाभावत्वेन कारणत्वमित्युक्तप्रतिबन्धकत्वलक्षणाभावाद् यागादेः स्वर्गादिकं प्रति प्रतिबन्धकत्वव्यवहारापज्यसम्भवात् ; न च समानविषयकस्य पूर्वानुभवस्य समानविषयकोत्तरस्मरण प्रति कारणत्वान्यथानुपपत्त्या यद् भावनाख्यसंस्कारकल्पनमनुभवस्य व्यापा. रतया तदपि न स्यात् , तत्राप्यनुभवध्वंसस्यैवानुभवव्यापारत्वसम्भवात् , उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनानतिप्रसङ्गादिति वाच्यम् , इष्टत्वात् ; न चाविनाशिनो ब्रह्महत्यादिक्रियाध्वंसलक्षणस्य ब्रह्महत्यादिक्रियाव्यापारस्य प्रायश्चित्तेन नाशासम्भवात् कृतब्रह्महत्यादिप्रायश्चित्तस्यापि ब्रह्महन्तुर्ब्रह्महत्यादिफलं नरकादिकं स्यादेव, अदृष्टवादिनस्तु प्रायश्चित्तादिना ब्रह्महत्याजन्यपापविशेषरूपादृष्टलक्षणव्यापारस्य विनाशान्न ब्रह्महत्यादिजन्यं नरकादिफलमिति वाच्यम् , नरकविशेषादिकं प्रति प्रायश्चित्ताद्यभाववब्रह्महत्यादिकर्मत्वेन ब्रह्महत्यादिकर्मणः कारणत्वात् , कृतप्रायश्चित्तादिकस्य ब्रह्महन्तुः प्रायश्चित्ताद्यभाववब्रह्म
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy