________________
१९६ शास्त्रवार्तासमुच्चयः।
[प्रथमः पक्षः शक्तिरदृष्टं वासनाऽदृष्टमिति परप्रवादः, उपपत्तितः युक्तितः, न घटते न सङ्गच्छते, प्रागुपदर्शितां युक्तिमेवानुगमय्य दर्शयति-बन्धादिति-बन्धापेक्षयेत्यर्थः । न्यूनातिरिक्तत्वे न्यूनत्वे अतिरिक्तत्वे वा, बन्धापेक्षया न्यूनत्वं किञ्चिद्धन्धाधिकरणावृत्तित्वम् , बन्धसमानाधिकरणत्वे सति बन्धसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमिति यावत् , तेन बन्धाधिकरणमात्रावर्तिनोऽपि किञ्चिद्वन्धाधिकरणावृत्तित्वेन न बन्धन्यूनत्वव्यवहारापत्तिः, बन्धापेक्षयाऽतिरिक्तत्वं बन्धापेक्षयाऽधिकदेशवृत्तित्वम् , तच्च बन्धाभाववद्वृत्तित्वं, बन्धसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वे सति बन्धाभाववद्वृत्तित्व मिति यावत् , तेन बन्धविरुद्धस्यापि बन्धाभाववद्वृत्तित्वेन न बन्धाधिकदेशत्वव्यवहारापत्तिः । तद्भावानुपपत्तितः बध्य-बन्धनीयभावाऽव्यवस्थाप्रसङ्गात् , यत्र बन्धो भवति तत्र बन्धन्यूनवर्तिनः शक्त्यादेरसत्त्वे बन्धो न स्यादिति बन्धन्यूनत्वे दोषः, यत्र बन्धो न भवति तत्रापि शक्त्यादेः सत्त्वे बन्धः स्यादित्यधिकत्वे दोषः, एवमप्रसङ्गातिप्रसङ्गाभ्यां दोषाभ्यां भङ्गयन्तरेण युक्त्या प्राक् प्रदर्शिताभ्यां शक्त्यादिपक्षो न घटत इत्यर्थः ॥ १०५॥
एतावता पराभिमतादृष्टनिराकरणेन स्वाभिमतादृष्टं यथाभूतं निरवा सिद्धिपथमेति तद्दर्शयति
तस्मात्तदात्मनो भिन्नं, सचित्रं चात्मयोगि च ।
अदृष्टमवगन्तव्यं, तस्य शक्त्यादिसाधकम् ॥ १०६ ॥ तस्मादिति-यस्मादेवं तस्मादुक्तहेतोरित्यर्थः । तत् नरादिवैचित्र्यनिर्वाहकं कर्म, आत्मनः आत्मनः सकाशात् , भिन्नं पृथग् द्रव्यरूपं पौगलिकमेव, न त्वात्मनो गुणस्वरूपं नैयायिकाद्यभिमतम् , सत् पारमार्थिकं, न तु काल्पनिकम् , चित्रं वैचित्र्यशालि, न त्वेकजातीयम्, आत्मयोगि आत्मसम्बन्धि, आत्मप्रदेशेषु क्षीरनीरन्यायेनानुप्रविष्टम् , न तु कूटस्थ नित्यादात्मनः सकाशात् पृथगेव विवर्तमानम् , नवा सर्पस्योपर्येव यथा कञ्चुकं तथा आत्मन उपर्येव वर्तमानम् । समुच्चयार्थकेन चकारेण प्रवाहतोऽनादित्वादि समुच्चीयते । तस्य आत्मनः। शक्त्यादिसाधक पराभिमतशत्त्यादिपक्षनिर्वाहकम् , कर्मात्मकादृष्टाभावे उक्तयुक्त्या शक्त्यादिकल्पनाऽसम्भवात् , अदृष्टं कर्म, अवगन्तव्यं स्याद्वादेकतानसूक्ष्मदृष्ट्या विभावनीयम् ।