SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १९५ वति, अदृष्टे चासत्त्वमप्रामाणिकत्वमेवेति प्रामाणिकत्वाभावलक्षणाप्रामाणिकत्वकल्पनापेक्षया प्रामाणिकत्वकल्पन एव लाघवाददृष्टसिद्धौ तस्यैव कर्मत्वमुचितमिति किं वासनां प्रकल्प्य तत्र कर्मत्वकल्पनयेति ॥ १०३ ॥ उक्ताभिप्रेतार्थाश्रयणेनाह बोधमात्रस्य तद्भावे, नास्ति ज्ञानमवासितम् । ततोऽमुक्तिः सदैव स्याद् , वैशिष्टयं केवलस्य न ॥१०४॥ बोधमात्रस्येति-मात्रपदं नाशेषार्थकं, किन्तु अविशिष्टतालक्षणकैवल्यार्थकम् , तद् यत्पदानन्तरं तदर्थे विशेषणतया तदर्थस्यान्वयो व्युत्पत्तिवैचित्र्यादिति बोधमात्रस्य-अविशिष्टबोधस्य, तद्भावे वासनात्वे, 'अङ्गीक्रियमाणे' इति शेषः, नास्ति ज्ञानमवासितं ज्ञानत्वं ज्ञानमात्रे वर्तत इति सर्वस्य ज्ञानस्य वासनारूपत्वादवासितं ज्ञानं नास्त्येवेति । एवं च वासितज्ञानमेव बन्ध इति सदा बद्ध एवात्मा भवेन्न कदापि मुक्त इत्याह-ततोऽमुक्तिःसदैव स्यादितिततः-सदैव वासितज्ञानसद्भावात् , सदैव सर्वदैव, अमुक्तिः-मोक्षाभावः, स्यात्प्रसज्येत । विशिष्टज्ञानस्य वासनारूपत्वे त्वाह-वैशिष्टयं केवलस्य नेतिकेवलस्य अविशेषितज्ञानस्य, वैशिष्ट्यं-किञ्चिद्विशेषणवत्त्वम् , न-न संभवति, विशेषकस्वीकारे तु यदेव विशेषकं तदेवादृष्टमित्याशयः। क्षणिकतत्तज्ज्ञानप्रवाहरूपा वासनेत्यपि न युक्तम् , यतो बुद्धज्ञानमपि क्षणिकमेवेति तज्ज्ञानप्रवाहोऽपि वासना स्यादिति बुद्धोऽपि मुक्तो न भवेत् ; अस्मदादिक्षणिकतत्तज्ज्ञानप्रवाहरूपा वासनेत्यपि न युक्तम् , अस्मत्क्षणिकविज्ञानानन्तरबुद्धविज्ञानतदनन्तरतज्ज्ञानप्रवाहरूपाऽपि वासना स्यादिति बुद्धस्यापि वासनापत्तेः; एकसन्तानगाम्यस्मदादिक्षणिकतत्तज्ज्ञानप्रवाहरूपा वासनेत्युक्तिरपि तदा शोभेत यदि बुद्धसन्तानव्यतिरिक्तमस्मदादिसन्तानं क्षणपरम्परातिरिक्तं स्यात् , तथाऽभ्युपगमे च द्रव्याभ्युपगमः प्रसज्येत, अन्यथा तूक्तातिप्रसङ्गो दुर्वार एवेति दिक् ॥ १०४॥ उपसंहरति एवं शक्त्यादिपक्षोऽयं, घटते नोपपत्तितः। बन्धान्यूनातिरिक्तत्वे, तद्भावानुपपत्तितः ॥ १०५॥ एवमिति–एवम्-उक्तप्रकारेण, अयम् अनन्तरमुपदर्शितः, शक्त्यादि
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy