SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १९४ शास्त्रवार्तासमुच्चयः । [प्रथमः उक्तार्थे निदर्शनमाह-पुष्पादिगन्धवैकल्य इति-पुष्पादिगन्धसम्बन्धाभावे इत्यर्थः । यतः यस्मात् कारणात् । तिलादौ वासना, 'नेष्यते' इत्यस्य स्थाने 'नेक्ष्यते' इति पाठो युक्तः, नानुभूयत इत्यर्थः, अनुभवस्य साक्षितयोपदर्शनेन निदर्शनं सुदृढं भवतीति, 'आत्मगतज्ञानवासना आत्मव्यतिरिक्तसम्बन्धजन्या वासनात्वात् , तिलादिगतगन्धवासनावद्' इत्यनुमानमत्र बोध्यम् ॥ १०२ ॥ ततश्च यद् आत्मव्यतिरिक्तं तद्वासकं वस्तु तत् कर्मेति सिध्यतीत्याह बोधमात्रातिरिक्तं तद् , वासकं किञ्चिदिष्यताम् । मुख्यं तदेव वः कर्म, न युक्ता वासनाऽन्यथा ॥ १०३ ॥ बोधमात्रातिरिक्तमिति-यस्माद् बोधमात्रव्यतिरिक्तं तत् तस्मानियमात् , वासकं किञ्चिद् इष्यतां स्वीक्रियताम् , तदेव स्वीक्रियमाणम् , वः युष्माकम् , मुख्यं वस्तु सत्, अवस्तुना वासनासम्भवात् कर्म, अस्तु भवतु, अन्यथा निरुक्तस्वरूपकर्माभ्युपगमं विना, वासना तु युक्ता न युत्तयुपपन्ना, वासकमन्तरेणापि वासनाभ्युपगमे तिलादौ पुष्पादिगन्धसम्बन्धमन्तरेणापि वासना प्रसज्येत; न चादृष्टस्यासतोऽपि ख्यातिरसत्ख्यातिवादिभिरस्माभिरुपेयते, तेनासत्ख्यात्योपनीतस्यादृष्टस्य भेदाग्रहाज्ज्ञानवासना भवतीत्येवमभ्युपगमे वासककर्मणोऽभ्युपगमो नावश्यक इति वाच्यम् , असत्ख्यात्युपनीतादृष्टभेदाग्रहाद् वासनाभ्युपगमे प्रमाणाभावात् , अन्यथा तैलादिषु पुष्पादिगन्धसम्बन्धाभावेऽपि पुष्पादिगन्धभेदाग्रहात् तद्वासनापत्तेः; न च तैलादिगतगन्धवासना पुष्पादिगन्धसम्बन्धप्रभवेति न सा पुष्पादिगन्धसम्बन्धमन्तरेण पुष्पादिगन्धभेदाग्रहाद् भवितुमर्हति, ज्ञानवासना तु तद्विलक्षणैवेति साऽसख्यात्युपनीतादृष्टभेदाग्रहाद् भविष्यतीति वाच्यम् , ज्ञानेऽदृष्टभेदाग्रहाद् वासनाभावे ज्ञानेऽदृष्टभेदग्रहाद् वासनानिवृत्तिरित्यस्यापि स्वीकतुं शक्यत्वेन यस्य प्रमातुरिदानी ज्ञानमदृष्टाद् भिन्नमिति ग्रहस्तस्य ज्ञानेऽदृष्टभेदग्रहाद् वासनानिवृत्त्येदानी मुक्तिप्रसङ्गात् , न चेदानीं भेदग्रहस्याभावेऽप्युत्तरकाले भेदाग्रहो भविष्यतीति तत्प्रयोजकदोषस्येदानीं सत्त्वान्नेदानी मुक्तिप्रसङ्ग इति वाच्यम् , तथा सति दोषाभावविशिष्टभेदग्रहाभावो वासनेत्यभ्युपगतः स्यात् , दोषश्च तत्र वासनैवेति वासनालक्षणदोषाहोषाभावविशिष्टभेदग्रहाभावो वासनेत्यात्माश्रयः, असत्तयाऽप्यदृष्टस्य स्वीकारे सत्येव निरुक्तवासनास्वीकारः संभ
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy