SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १९३ अत्र स्वाभिप्राय उपाध्यायैरित्थं दर्शितः-"वस्तुतः सा शक्तिर्यदि तदैव क्रिया याऽभिव्यज्यते तदा तदैव स्वर्गोत्पत्तिः स्यात् , यदि च क्रियाजन्यावरणध्वंससहकृता कालान्तर एव फलजननी स्वीक्रियते तदा किमेतावत्कुसृष्ट्या, तज्जन्यधर्मस्यैव स्वविपाककाले फलजनकत्वौचित्यादिति स्मर्तव्यम्" इति ॥ १०० ।। आत्म-शक्त्योः सकाशाद् भिन्नमावरणरूपं कर्म पापस्वरूपमस्तु, न तु पुण्यमिति पराकूतमाशङ्कय प्रतिक्षिपति पापं तद्भिन्नमेवास्तु, क्रियान्तरनिबन्धनम् । एवमिष्टक्रियाजन्यं, पुण्यं किमिति नेष्यते ? ॥१०१॥ पापमिति । तत् आवरकं कर्म । क्रियान्तरनिबन्धनं क्रियान्तरं निबन्धनं निमित्तमस्य तत् क्रियान्तरनिबन्धनमिति व्युत्पत्या क्रियान्तरजन्यम् , क्रियान्तरं चाशुभक्रियारूपम् , ईदृशं पापं, भिन्नमेव शक्तितो भिन्नमेव, अस्तु भवतु, पुण्यं किमिति व्यतिरिक्तमभ्युपेयमिति चेत् ? अत्रोत्तरम्एवमिति-अशुभक्रियाजन्यं पापं यथा शक्तितो व्यतिरिक्त तथेत्यर्थः । इष्टक्रियाजन्यम् आगमविहितयागाद्विक्रियानिष्पाद्यम् । पुण्यं धर्मापरनामकम् , किमिति नेष्यते कुतो हेतोः न स्वीक्रियते, तस्याप्यात्मसम्बन्धिकालान्तरभाविफलजनकत्वेनाभ्युपगन्तुमुचितत्वात् फलाव्यवहितपूर्वकाले शुभक्रियाया यागादिस्वरूपाया अभावात् , यदि चाशुभक्रियानिमित्तकत्वेन पापस्य क्लप्तत्वेन तदभाव एव पुण्यं, न तु तद्व्यतिरिक्तं भावस्वरूपं तदिति भवतां मतिः, तर्हि विहितक्रियाजन्यत्वेनातिरिक्तस्य भावरूपस्य पुण्यस्य क्लप्तत्वेन तदभावस्वरूपमेव पापं, न तु तद्व्यतिरिक्त भावस्वरूपं तदित्येव किं न रोचयेः? विनिगमकाभावस्योभयत्र तुल्यत्वादित्याशयः ॥ १०१ ॥ एतावता कर्मणः शक्तिरूपत्वमपाकृतम् , “अन्ये तु वासनारूपं विचित्रफलदं तथा" इत्यनेन कर्मणो वासनारूपत्वमित्यन्येषां मतं यदुद्भावितं तदधिकृत्याह वासनाऽप्यन्यसम्बन्धं, विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये, तिलादौ नेष्यते यतः ॥ १०२ ॥ वासनाऽपीति । अन्यसम्बन्धं विना वास्यात्मज्ञानातिरिक्तवस्तुसम्बन्धमन्तरेण । वासनाऽपि नैवोपपद्यते न कथमपि युक्त्युपपन्ना भवति । १३ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy