SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १९२ शास्त्रवार्तासमुच्चयः। [प्रथमः एव, एतेन तस्या नित्यत्वमावेदितम् , तत् किं दानादिक्रिया व्यर्था? सप्रयोजना चेत् ? किमस्याः प्रयोजनमिति पृच्छति-किन्त्विति । सदातनव्यवस्थितशक्तिव्यञ्जनलक्षणप्रयोजनवत्त्वेन सुपात्रदानादिक्रिया सफलेत्युत्तरयति-क्रिययेतिसुपात्रदानादिक्रिययेत्यर्थः । परं केवलम् , व्यज्यते फलदानसमर्था भवति । उक्ताशङ्काप्रतिक्षेपहेतुपरमुत्तरार्द्धम् , तेन "नैवं वाच्यम् , यतः" इति शेषः, आत्ममात्रस्थितायाः अनावृतैकस्वरूपात्मव्यवस्थितायाः स्वतोऽपि केनचिदनावृतायाः, तस्याः शक्तेः, न नैव, व्यक्तिः आवरणनिवृत्तिलक्षणाऽभिव्यक्तिः, कदाचन जातुचित् ॥ ९९ ॥ आवरणाभावादेवाऽऽवरणनिवृत्तिलक्षणाभिव्यक्तिः शक्तिर्न सम्भवतीत्येव -स्पष्टीकरोति तदन्यावरणाभावाद् , भावे वाऽस्यैव कर्मता । तन्निराकरणाद् व्यक्तिरिति तद्भेदसंस्थितिः ॥ १० ॥ तदन्येति । तदन्यावरणाभावात् अनावृतायाः शक्तेरन्यस्यावरणस्या भावात् , यदि शक्तिरावृता भवेत् स्यात् तदा तदावृतिनिवृत्तिरूपतदभिव्यक्तिफलकत्वेन सुपात्रदानादिक्रियायाः साफल्यम् , न चैवम् , सर्वदाऽसतश्चावरणस्य नित्यनिवृत्तत्वेन नावृतिनिवृत्तिलक्षणाऽभिव्यक्तिः क्रियया तस्याः संभवतीत्याशयः । नित्यायास्तस्याः शक्तेः कार्यान्तरं प्रत्यनावृतत्वेऽपि प्रकृतफलप्रदानाभिमुख्याभावात् प्रकृतफलं प्रत्यावृतत्वमेवेत्यत आह-भावे वेति-शक्तेरन्यावरणस्य सद्भावे वेत्यर्थः । अस्यैव आवरणत्वेन स्वीकृतस्यैव । कर्मता कर्मरूपता प्रामोति, तत्र हेतुः-यत इति करणीयः। तन्निराकरणादिति-तस्य-आवरणस्य निराकरणादित्यर्थः । व्यक्तिः शक्तेरभिव्यक्तिः, इति एतस्माद्धेतोः । तद्भेदसंस्थितिः तयोः-शक्त्यात्मनोः सकाशात् कर्मणो भेदस्य संस्थिति:मर्यादा, अस्तीत्यनुषज्यते, यतो विरुद्धधर्माध्यासाद् भेदो भवति, आत्मनश्चाधारत्वमाधेयत्वं च शक्तेः, निरावृतत्वं चात्मनः शक्तेश्चावृतत्वमित्येवमाधारवाधेयत्वाभ्यामावृतत्वाऽनावृतत्वाभ्यां च विरुद्धधर्माभ्यामालिङ्गितत्वादात्मशक्त्योः परस्परं भेदः, शक्तिः क्रिययाऽभिव्यज्यते, आवरणं च कर्मक्रियया नश्यतीति क्रियाभिव्यक्तत्व-क्रियानाश्यत्वाभ्यां विरुद्धधर्माभ्यामालिङ्गितत्वाच्छक्ति-कर्मणोर्भेद इत्येवमात्मशक्ति-क्रियात्रयसिद्धावप्यावरणरूपतया कर्मणोऽपि सिद्धिर्भवत्येव ।
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy